Another [level of *samādhi*] has [merely] a residual of mental activity [left] after the attentive practice stops.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ
YS 1.18
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश् चित्तस्य समाधिर् असंप्रज्ञातः। तस्य परं वैराग्यम् उपायः। सालम्बनो ह्य् अभ्यासस् तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते। स चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं निरालम्बनम् अभावप्राप्तम् इव भवतीत्य् एष निर्बीजः समाधिर् असंप्रज्ञातः।