Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam

tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam

YS 1.16

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The higher [renunciation] is the non-thirst towards sense contact via self-possession.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिर् गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति। तद् द्वयं वैराग्यम्। तत्र यद् उत्तरं तज् ज्ञानप्रसादमात्रम्। यस्योदये सति योगी प्रत्युदितख्यातिर् एवं मन्यते --- प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाज् जनित्वा म्रियते मृत्वा च जायत इति। ज्ञानस्यैव परा काष्ठा वैराग्यम्। एतस्यैव हि नान्तरीयकं कैवल्यम् इति।