That stilling is achieved through practice and dispassion.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
अभ्यासवैराग्याभ्यां तन्निरोधः॥
abhyāsa-vairāgyābhyāṁ tan-nirodhaḥ
YS 1.12
Audio
Translations & commentaries(3)
Show:
Sūtra — Translation
[Vyāsa Bhāṣya] चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्य-प्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा । संसारप्राग्भारा अविवेकविषय-निम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते । विवेकदर्शनाभ्यासेन विवेकविषयस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ।
Bhāṣya — Commentary
[Tattvavaiśāradī Vṛtti – excerpt] अभ्यासवैराग्याभ्यां तन्निरोधः। उभाव् अप्य् एतौ चित्तनिरोधहेतू सूत्रकार उपन्यस्यति — अभ्यासश्च वैराग्यं चेति। तत्र प्रथमम् अभ्यासं व्याचष्टे। चित्तनिरोधाभिनिवेशो हि स्थैर्यार्थम् अनुष्ठीयमानो ऽभ्यास इत्य् उच्यते। तस्य च बहुजन्मसहस्रावच्छिन्नस्य तीव्रसंस्कारबलाद् दृढपदत्वम्।