Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ

anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ

YS 1.11

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Recollection is not being deprived of experiences.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] किं प्रत्ययस्य चित्तं स्मरत्य् आहोस्विद् विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस् तज्जातीयकं संस्कारम् आरभते। स संस्कारः स्वव्यञ्जकाञ्जनस् तदाकाराम् एव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी --- भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्व् अभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनाम् अनुभवात् प्रभवन्ति। सर्वाश् चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश् च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनर् अविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे संप्रज्ञातो वा समाधिर् भवत्य् असंप्रज्ञातो वेति।