Drowsiness is a whirling which embraces fading away.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
abhāvapratyayālambanā vṛttir nidrā
abhāvapratyayālambanā vṛttir nidrā
YS 1.10
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः। कथम्, सुखम् अहम् अस्वाप्सम्। प्रसन्नं मे मनः। प्रज्ञां मे विशारदीकरोति। दुःखम् अहम् अस्वाप्सम्। स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् गाढं मूढोऽहम् अस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितम् इव तिष्ठतीति। स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे तदाश्रिताः स्मृतय्श् च तद्विषया न स्युः। तस्मात् प्रत्ययविशेषो निद्रा। सा च समाधाव् इतरप्रत्ययवन् निरोद्धव्येति।