Sant Seva ParishadSant Seva ParishadSSP · sant seva

Taittiriya Upanishad

तैत्तिरीयोपनिषद्

मूल श्लोकः

॥ असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । अऽऽ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ । सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदंसर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १॥

|| asanneva sa bhavati | asadbrahmeti veda cet | asti brahmeti cedveda | santamenaṃ tato viduriti | tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya | athāto'nupraśnāḥ | utāvidvānamuṃ lokaṃ pretya | kaścana gacchatī3 | a'' | āho vidvānamuṃ lokaṃ pretya | kaścitsamaśnutā3 u | so'kāmayata | bahusyāṃ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā | idaṃsarvamasṛjata | yadidaṃ kiñca | tatsṛṣṭvā | tadevānuprāviśat | tadanu praviśya | sacca tyaccābhavat | niruktaṃ cāniruktaṃ ca | nilayanaṃ cānilayanaṃ ca | vijñānaṃ cāvijñānaṃ ca | satyaṃ cānṛtaṃ ca satyamabhavat | yadidaṃ kiñca | tatsatyamityācakṣate | tadapyeṣa śloko bhavati || 1||

TaU 2.6

Audio
Translations & commentaries(0)

No translations available for this verse yet.