Nirvana Shatakam (Atma Shatakam) · अध्याय 1
Verses
श्लोकाः
The 6 verses declaring "śivo'ham śivo'ham" — I am Shiva.
- NS 1Open verse →
मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १॥
manobuddhyahaṃkāra cittāni nāhaṃ na ca śrotrajihve na ca ghrāṇanetre | na ca vyomabhūmirna tejo na vāyuḥ cidānandarūpaḥ śivo'haṃ śivo'ham || 1 ||
- NS 2Open verse →
न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशः । न वाक्पाणिपादौ न चोपस्थपायू चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २॥
na ca prāṇasaṃjño na vai pañcavāyuḥ na vā saptadhāturna vā pañcakośaḥ | na vākpāṇipādau na copasthapāyū cidānandarūpaḥ śivo'haṃ śivo'ham || 2 ||
- NS 3Open verse →
न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३॥
na me dveṣarāgau na me lobhamohau mado naiva me naiva mātsaryabhāvaḥ | na dharmo na cārtho na kāmo na mokṣaḥ cidānandarūpaḥ śivo'haṃ śivo'ham || 3 ||
- NS 4Open verse →
न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४॥
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ na mantro na tīrthaṃ na vedā na yajñāḥ | ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā cidānandarūpaḥ śivo'haṃ śivo'ham || 4 ||
- NS 5Open verse →
न मे मृत्युशङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्मः । न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५॥
na me mṛtyuśaṅkā na me jātibhedaḥ pitā naiva me naiva mātā na janmaḥ | na bandhurna mitraṃ gururnaiva śiṣyaḥ cidānandarūpaḥ śivo'haṃ śivo'ham || 5 ||
- NS 6Open verse →
अहं निर्विकल्पो निराकाररूपो विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् । सदा मे समत्वं न मुक्तिर्न बन्धः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६॥
ahaṃ nirvikalpo nirākārarūpo vibhurvyāpya sarvatra sarvendriyāṇām | sadā me samatvaṃ na muktirna bandhaḥ cidānandarūpaḥ śivo'haṃ śivo'ham || 6 ||