Mundaka Upanishad · अध्याय 3
Mundaka 3
तृतीयं मुण्डकम्
The two birds on the same tree; the conditions for Self-knowledge.
- MuU 3.1Open verse →
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte tayor anyaḥ pippalaṁ svādv atty anaśnann anyo abhicākaśīti
Meaning · English
Two birds, inseparable companions, perch on the same tree. One eats the sweet fruit; the other looks on without eating.
- MuU 3.2Open verse →
॥2॥
- MuU 3.3Open verse →
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥3॥
- MuU 3.4Open verse →
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ॥ एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥4॥
- MuU 3.5Open verse →
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ॥ ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥5॥
- MuU 3.6Open verse →
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥
satyam eva jayate nānṛtaṁ satyena panthā vitato deva-yānaḥ yenākramanty ṛṣayo hy āpta-kāmā yatra tat satyasya paramaṁ nidhānam
Meaning · English
Truth alone triumphs, not falsehood. By truth is laid out the path of the gods, by which the sages whose desires are fulfilled ascend to that supreme abode of truth. ("Satyameva Jayate" — the motto of India.)
- MuU 3.7Open verse →
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रति देवतासु ॥ कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥7॥
- MuU 3.8Open verse →
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ॥ तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥8॥
- MuU 3.9Open verse →
तरति शोकमात्मविद्॥
tarati śokam ātma-vid
Meaning · English
The knower of the Self crosses sorrow.
- MuU 3.10Open verse →
तदेतदृचाऽभ्युक्तम् ॥ क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ॥ तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥10॥
- MuU 3.11Open verse →
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते ॥ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥11॥
- MuU 3.12Open verse →
परीक्षय लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायन्नास्त्यकृतः कृतेन ॥ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पानणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥12॥
- MuU 3.13Open verse →
त्स्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमन्विताय ॥ येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥13॥
- MuU 3.1.1Open verse →
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte | tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti
- MuU 3.1.2Open verse →
समाने वृक्षे पुरुषो निमग्नो- ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीश- मस्य महिमानमिति वीतशोकः
samāne vṛkṣe puruṣo nimagno- 'nīśayā śocati muhyamānaḥ | juṣṭaṃ yadā paśyatyanyamīśa- masya mahimānamiti vītaśokaḥ
- MuU 3.1.3Open verse →
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति
yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim | tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti
- MuU 3.1.4Open verse →
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां वरिष्ठः
prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhavate nātivādī | ātmakrīḍa ātmaratiḥ kriyāvā- neṣa brahmavidāṃ variṣṭhaḥ
- MuU 3.1.5Open verse →
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam | antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ
- MuU 3.1.6Open verse →
सत्यमेव जयते नानृतं (जयति) सत्येन पन्था विततो देवयानः । येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्
satyameva jayate nānṛtaṃ (jayati) satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṃ nidhānam
- MuU 3.1.7Open verse →
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्
bṛhacca taddivyamacintyarūpaṃ sūkṣmācca tatsūkṣmataraṃ vibhāti | dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṃ guhāyām
- MuU 3.1.8Open verse →
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्व- स्ततस्तु तं पश्यते निष्कलं ध्यायमानः
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā | jñānaprasādena viśuddhasattva- statastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ
- MuU 3.1.9Open verse →
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा
eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa | prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasminviśuddhe vibhavatyeṣa ātmā
- MuU 3.1.10Open verse →
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः
yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān | taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ- stasmādātmajñaṃ hyarcayedbhūtikāmaḥ
- MuU 3.2.1Open verse →
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः
sa vedaitatparamaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram | upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ
- MuU 3.2.2Open verse →
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः
kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra | paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ
- MuU 3.2.3Open verse →
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम्
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena | yamevaiṣa vṛṇute tena labhya- stasyaiṣa ātmā vivṛṇute tanūṃ svām
- MuU 3.2.4Open verse →
(आत्मा वृणुते) नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्मधाम
(ātmā vṛṇute) nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt | etairupāyairyatate yastu vidvāṃ- stasyaiṣa ātmā viśate brahmadhāma
- MuU 3.2.5Open verse →
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति
saṃprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ | te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti
- MuU 3.2.6Open verse →
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे
vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ | te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve
- MuU 3.2.7Open verse →
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu | karmāṇi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti
- MuU 3.2.8Open verse →
यथा नद्यः स्यन्दमानाः समुद्रे- ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्
yathā nadyaḥ syandamānāḥ samudre- 'staṃ gacchanti nāmarūpe vihāya | tathā vidvān nāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam
- MuU 3.2.9Open verse →
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति
sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati | tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto'mṛto bhavati
- MuU 3.2.10Open verse →
तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्
tadetadṛcā'bhyuktam | kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ | teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam
- MuU 3.2.11Open verse →
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः
tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte | namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ