Mokshadharma Parva · अध्याय 29
Mokshadharma 29 (BORI 196, vulgate 202)
अध्यायः १९६
Shanti Parva Mokshadharma chapter 29 of 186.
- Moksha 29.1Open verse →
मनुरुवाच|| यदिन्द्रियैस्तूपकृतान्पुरस्ता; त्प्राप्तान्गुणान्संस्मरते चिराय | तेष्विन्द्रियेषूपहतेषु पश्चा; त्स बुद्धिरूपः परमः स्वभावः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.2Open verse →
यथेन्द्रियार्थान्युगपत्समस्ता; न्नावेक्षते कृत्स्नमतुल्यकालम् | यथाबलं सञ्चरते स विद्वां; स्तस्मात्स एकः परमः शरीरी
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.3Open verse →
रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान् | तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.4Open verse →
न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शमिन्द्रियेन्द्रियम् | न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.5Open verse →
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना | सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.6Open verse →
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा | न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.7Open verse →
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ | अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.8Open verse →
पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति | एवमस्ति न वेत्येतन्न च तन्न परायणम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.9Open verse →
रूपवन्तमरूपत्वादुदयास्तमये बुधाः | धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.10Open verse →
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः | प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.11Open verse →
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति | सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.12Open verse →
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा | गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.13Open verse →
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् | तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.14Open verse →
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि | तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.15Open verse →
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते | न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.16Open verse →
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते | तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.17Open verse →
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः | तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.18Open verse →
जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते | सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.19Open verse →
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते | चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.20Open verse →
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः | विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.21Open verse →
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते | तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.22Open verse →
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते | तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":196,"vulgateChapter":202}
- Moksha 29.23Open verse →
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः | तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः