Mokshadharma Parva · अध्याय 174
Mokshadharma 174 (BORI 341, vulgate 347)
अध्यायः ३४१
Shanti Parva Mokshadharma chapter 174 of 186.
- Moksha 174.1Open verse →
आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे | गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.2Open verse →
सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः | धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.3Open verse →
अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः | न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.4Open verse →
ज्ञातिसम्बन्धिविपुले मित्रापाश्रयसंमते | कुले महति विख्याते विशिष्टां वृत्तिमास्थितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.5Open verse →
स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः | कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.6Open verse →
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च | शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.7Open verse →
किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् | इत्येवं खिद्यते नित्यं न च याति विनिश्चयम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.8Open verse →
तस्यैवं खिद्यमानस्य धर्मं परममास्थितः | कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":341,"vulgateChapter":347}
- Moksha 174.9Open verse →
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना | विश्रान्तं चैनमासीनमिदं वचनमब्रवीत्