Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva

मोक्षधर्म

मूल श्लोकः

गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति गुरुकुलवासिनः परिव्राजका ये चान्ये सङ्कल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ||

Moksha 17.10

Audio
Translations & commentaries(1)

Padārtha Word-meaning

Padārtha· META

{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":184,"vulgateChapter":190}