Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva

मोक्षधर्म

मूल श्लोकः

दक्षशापात्सोमं राजानं यक्ष्माविवेश स यक्ष्मणाविष्टो दक्षमगमत् दक्षश्चैनमब्रवीन्न समं वर्तस इति तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् तत्र गत्वात्मानमभिषेचयस्वेति अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् गत्वा चात्मनः स्नपनमकरोत् स्नात्वा चात्मानं पाप्मनो मोक्षयामास तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत्

Moksha 162.46

Audio
Translations & commentaries(1)

Padārtha Word-meaning

Padārtha· META

{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":329,"vulgateChapter":335}