Mokshadharma Parva · अध्याय 104
Mokshadharma 104 (BORI 271, vulgate 277)
अध्यायः २७१
Shanti Parva Mokshadharma chapter 104 of 186.
- Moksha 104.1Open verse →
उशनोवाच|| नमस्तस्मै भगवते देवाय प्रभविष्णवे | यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम्
Meaning
{"speaker":"","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.2Open verse →
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम | तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्
Meaning
{"speaker":"","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.3Open verse →
तयोः संवदतोरेवमाजगाम महामुनिः | सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.4Open verse →
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा | निषसादासने राजन्महार्हे मुनिपुङ्गवः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.5Open verse →
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् | ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.6Open verse →
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् | विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.7Open verse →
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् | विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.8Open verse →
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.9Open verse →
नैष दानवता शक्यस्तपसा नैव चेज्यया | सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.10Open verse →
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः | निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.11Open verse →
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् | बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.12Open verse →
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा | यत्नेन महता चैवाप्येकजातौ विशुध्यते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.13Open verse →
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः | बहु यत्नेन महता दोषनिर्हरणं तथा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.14Open verse →
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् | न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.15Open verse →
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः | विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.16Open verse →
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु | बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.17Open verse →
कर्मणा स्वेन रक्तानि विरक्तानि च दानव | यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.18Open verse →
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो | तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.19Open verse →
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः | स वै सृजति भूतानि स्थावराणि चराणि च
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.20Open verse →
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च | एकादशविकारात्मा जगत्पिबति रश्मिभिः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.21Open verse →
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च | बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.22Open verse →
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् | बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.23Open verse →
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम | नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.24Open verse →
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् | सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.25Open verse →
अकर्मणः फलं चैव स एव परमव्ययः | छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.26Open verse →
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः | स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.27Open verse →
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः | पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.28Open verse →
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.29Open verse →
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् | जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.30Open verse →
संहारविक्षेपसहस्रकोटी; स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये | प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.31Open verse →
वाप्यः पुनर्योजनविस्तृतास्ताः; क्रोशं च गम्भीरतयावगाढाः | आयामतः पञ्चशताश्च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.32Open verse →
वाप्या जलं क्षिप्यति वालकोट्या; त्वह्ना सकृच्चाप्यथ न द्वितीयम् | तासां क्षये विद्धि कृतं विसर्गं; संहारमेकं च तथा प्रजानाम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.33Open verse →
षड्जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलमथास्य मध्यम् | रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.34Open verse →
परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र | गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिमुपैति जीवः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.35Open verse →
गतिं च यां दर्शनमाह देवो; गत्वा शुभं दर्शनमेव चाह | गतिः पुनर्वर्णकृता प्रजानां; वर्णस्तथा कालकृतोऽसुरेन्द्र
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.36Open verse →
शतं सहस्राणि चतुर्दशेह; परा गतिर्जीवगुणस्य दैत्य | आरोहणं तत्कृतमेव विद्धि; स्थानं तथा निःसरणं च तेषाम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.37Open verse →
कृष्णस्य वर्णस्य गतिर्निकृष्टा; स मज्जते नरके पच्यमानः | स्थानं तथा दुर्गतिभिस्तु तस्य; प्रजाविसर्गान्सुबहून्वदन्ति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.38Open verse →
शतं सहस्राणि ततश्चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात् | स चैव तस्मिन्निवसत्यनीशो; युगक्षये तमसा संवृतात्मा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.39Open verse →
स वै यदा सत्त्वगुणेन युक्त; स्तमो व्यपोहन्घटते स्वबुद्ध्या | स लोहितं वर्णमुपैति नीलो; मनुष्यलोके परिवर्तते च
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.40Open verse →
स तत्र संहारविसर्गमेव; स्वकर्मजैर्बन्धनैः क्लिश्यमानः | ततः स हारिद्रमुपैति वर्णं; संहारविक्षेपशते व्यतीते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.41Open verse →
हारिद्रवर्णस्तु प्रजाविसर्गा; न्सहस्रशस्तिष्ठति सञ्चरन्वै | अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.42Open verse →
गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव | विमुक्तमेनं निरयाच्च विद्धि; सर्वेषु चान्येषु च सम्भवेषु
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.43Open verse →
स देवलोके विहरत्यभीक्ष्णं; ततश्च्युतो मानुषतामुपैति | संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्नमृतत्वमेति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.44Open verse →
सोऽस्मादथ भ्रश्यति कालयोगा; त्कृष्णे तले तिष्ठति सर्वकष्टे | यथा त्वयं सिध्यति जीवलोक; स्तत्तेऽभिधास्याम्यसुरप्रवीर
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.45Open verse →
दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रोऽथ तथैव शुक्लः | संश्रित्य सन्धावति शुक्लमेत; मष्टापरानर्च्यतमान्स लोकान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.46Open verse →
अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम् | शुक्लस्य वर्णस्य परा गतिर्या; त्रीण्येव रुद्धानि महानुभाव
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.47Open verse →
संहारविक्षेपमनिष्टमेकं; चत्वारि चान्यानि वसत्यनीशः | षष्ठस्य वर्णस्य परा गतिर्या; सिद्धा विशिष्टस्य गतक्लमस्य
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.48Open verse →
सप्तोत्तरं तेषु वसत्यनीशः; संहारविक्षेपशतं सशेषम् | तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.49Open verse →
तस्मादुपावृत्य ततः क्रमेण; सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् | स सप्तकृत्वश्च परैति लोका; न्संहारविक्षेपकृतप्रवासः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.50Open verse →
शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.51Open verse →
संहारकाले परिदग्धकाया; ब्रह्माणमायान्ति सदा प्रजा हि | चेष्टात्मनो देवगणाश्च सर्वे; ये ब्रह्मलोकादमराः स्म तेऽपि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.52Open verse →
प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्येव सरन्ति जीवाः | निःशेषाणां तत्पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.53Open verse →
ये तु च्युताः सिद्धलोकात्क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या | जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.54Open verse →
स यावदेवास्ति सशेषभुक्ते; प्रजाश्च देव्यौ च तथैव शुक्ले | तावत्तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपमेतत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.55Open verse →
इत्येतदाख्यातमहीनसत्त्व; नारायणस्येह बलं मया ते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.56Open verse →
एवं गते मे न विषादोऽस्ति कश्चि; त्सम्यक्च पश्यामि वचस्तवैतत् | श्रुत्वा च ते वाचमदीनसत्त्व; विकल्मषोऽस्म्यद्य तथा विपाप्मा
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.57Open verse →
स वै महात्मा पुरुषोत्तमो वै; तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.58Open verse →
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् | योजयित्वा तथात्मानं परं स्थानमवाप्तवान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.59Open verse →
अयं स भगवान्देवः पितामह जनार्दनः | सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.60Open verse →
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा | तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.61Open verse →
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् | तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.62Open verse →
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.63Open verse →
सर्वाण्यशून्यानि करोत्यनन्तः; सनत्कुमारः सञ्चरते च लोकान् | स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत्सर्वमिदं विचित्रम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.64Open verse →
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः | शुभा तस्मात्स सुखितो न शोचति पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.65Open verse →
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ | तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.66Open verse →
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव | तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.67Open verse →
वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे | कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.68Open verse →
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः | विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":271,"vulgateChapter":277}
- Moksha 104.69Open verse →
प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा | सुखेन संयास्यथ सिद्धसङ्ख्यां; मा वो भयं भूद्विमलाः स्थ सर्वे