Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Mandukya Upanishad · Ch 1

Mandukya Upanishad · अध्याय 1

Mantras

मन्त्राः

The 12 mantras analysing OM and the four states (jagrat, svapna, sushupti, turiya).

  1. ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव॥

    oṁ ity etad akṣaram idaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavad bhaviṣyad iti sarvam oṅkāra eva yac cānyat trikālātītaṁ tad apy oṅkāra eva

    Meaning · English

    OM — this imperishable syllable is all this. Its further explanation is: whatever was, is, and shall be — all is OM. And whatever else there is, beyond the three times — that too is OM.

  2. सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्॥

    sarvaṁ hy etad brahmāyam ātmā brahma so 'yam ātmā catuṣpāt

    Meaning · English

    All this is verily Brahman. This Self is Brahman. The Self has four quarters.

  3. जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥3॥

  4. स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥4॥

  5. यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥5॥

  6. एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥6॥

  7. नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः॥

    nāntaḥ-prajñaṁ na bahiḥ-prajñaṁ nobhayataḥ-prajñaṁ na prajñāna-ghanaṁ na prajñaṁ nāprajñam adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātma-pratyaya-sāraṁ prapañcopaśamaṁ śāntaṁ śivam advaitaṁ caturthaṁ manyante sa ātmā sa vijñeyaḥ

    Meaning · English

    Not inwardly conscious, not outwardly conscious, not in both directions; not a mass of consciousness, neither conscious nor unconscious; unseen, ungraspable, beyond inference, indefinable, unthinkable, beyond designation — the essence of the conviction of the one Self, the cessation of all phenomena, tranquil, auspicious, non-dual: that is the Fourth (Turiya). That is the Self; That is to be known.

  8. सोऽयमात्माध्यक्षरमोङ्करोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥8॥

  9. जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥9॥

  10. स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याऽब्रह्मवित्कुले भवति य एवं वेद ॥10॥

  11. सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥11॥

  12. अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥12॥