Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Kena Upanishad · Ch 1
Ch 2 »

Kena Upanishad · अध्याय 1

Khanda 1

प्रथमः खण्डः

The question — by whom is the mind directed?

  1. ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ॥ केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥1॥

  2. श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचँ स उ प्राणस्य प्राणः ॥ चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥2॥

  3. न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो। न विद्मो न विजानीमो यथैतदनुशिष्यात्॥

    na tatra cakṣur gacchati na vāg gacchati no mano na vidmo na vijānīmo yathaitad anuśiṣyāt

    Meaning · English

    There the eye does not go, nor speech, nor mind. We do not know, we cannot understand, how one would teach it.

  4. यद्वाचानभ्युदितं येन वागभ्युद्यते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥4॥

  5. यन्मनसा न मनुते येनाहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥5॥

  6. यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥6॥

  7. यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदँ श्रुतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥7॥

  8. यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥8॥