Katha Upanishad · अध्याय 3
Adhyaya 1 · Valli 3
तृतीया वल्ली
The chariot allegory — body, senses, mind, intellect, Self.
- KaU 3.1Open verse →
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः
ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe | chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ
- KaU 3.2Open verse →
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि
yaḥ seturījānānāmakṣaraṃ brahma yat param | abhayaṃ titīrṣatāṃ pāraṃ nāciketa~ śakemahi
- KaU 3.3Open verse →
आत्मानꣳ रथिनं विद्धि शरीरꣳ रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥
ātmānaṁ rathinaṁ viddhi śarīraṁ ratham eva tu buddhiṁ tu sārathiṁ viddhi manaḥ pragraham eva ca
Meaning · English
Know the Self as the master of the chariot, the body as the chariot itself; know the intellect as the charioteer and the mind as the reins.
- KaU 3.4Open verse →
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः
indriyāṇi hayānāhurviṣayā~ steṣu gocarān | ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ
- KaU 3.5Open verse →
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः
yastvavijñānavānbhavatyayuktena manasā sadā | tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ
- KaU 3.6Open verse →
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः
yastu vijñānavānbhavati yuktena manasā sadā | tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ
- KaU 3.7Open verse →
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति
yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ | na sa tatpadamāpnoti saṃsāraṃ cādhigacchati
- KaU 3.8Open verse →
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ | sa tu tatpadamāpnoti yasmādbhūyo na jāyate
- KaU 3.9Open verse →
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्
vijñānasārathiryastu manaḥ pragrahavānnaraḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam
- KaU 3.10Open verse →
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ | manasastu parā buddhirbuddherātmā mahānparaḥ
- KaU 3.11Open verse →
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ | puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ
- KaU 3.12Open verse →
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśate | dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ
- KaU 3.13Open verse →
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani | jñānamātmani mahati niyacchettadyacchecchānta ātmani
- KaU 3.14Open verse →
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥
uttiṣṭhata jāgrata prāpya varān nibodhata kṣurasya dhārā niśitā duratyayā durgaṁ pathas tat kavayo vadanti
Meaning · English
Arise! Awake! Approach the great teachers and learn. The path is sharp as the edge of a razor, difficult to traverse — so say the wise.
- KaU 3.15Open verse →
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते
aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yat | anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tanmṛtyumukhāt pramucyate
- KaU 3.16Open verse →
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते
nāciketamupākhyānaṃ mṛtyuprokta~ sanātanam | uktvā śrutvā ca medhāvī brahmaloke mahīyate
- KaU 3.17Open verse →
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi | prayataḥ śrāddhakāle vā tadānantyāya kalpate | tadānantyāya kalpata iti
- KaU 3.18Open verse →
-----Page------------------७-- जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ॥ अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥18॥
- KaU 3.19Open verse →
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ॥ अभौतौ न विजनीतो नायं हन्ति न हन्यते ॥19॥
- KaU 3.20Open verse →
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो ग्र्हायाम् ॥ तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥20॥
- KaU 3.21Open verse →
आसीनो दूरं ब्रजति शयानो याति सर्वतः ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥21॥
- KaU 3.22Open verse →
अशरीरँशरीरेष्वनवस्थेष्ववस्थितम् ॥ महन्तं विभुमात्मानं मत्वा धीरो न शोचि ॥22॥
- KaU 3.23Open verse →
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुन श्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥23॥
- KaU 3.24Open verse →
नाविरतो दुश्चरितान्नाशान्तो नासमहितः ॥ नाशान्तमानसो वपि प्रज्ञानेनैनमाप्नुयात् ॥24॥
- KaU 3.25Open verse →
यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ॥ मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥25॥