Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Chandogya Upanishad · Ch 8
« Ch 7

Chandogya Upanishad · अध्याय 8

Prapathaka 8

अष्टमः प्रपाठकः

The little ether in the heart.

  1. अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥1॥

  2. नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय त्ँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥2॥

  3. तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥3॥

  4. तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥4॥

  5. तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाँठ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति स्ँ स्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥5॥

  6. इत्यष्टमाध्याये षष्ठः खण्डः ॥6॥

  7. इत्यष्टमाध्याये सप्तमः खण्डः ॥7॥

  8. इत्यष्टमाध्यायेऽष्टमः खण्डः ॥8॥

  9. एवमेवैष मघव अ। उ। ६ -----Page-----------------८२-- -----Page-----------------८३-- -----Page-----------------८४-- ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति छान्दोग्योपनिषत्संपूर्णा ॥9॥

  10. यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते ॥10॥

  11. ॥11॥

  12. ॥12॥

  13. ॥13॥

  14. ॥14॥

  15. ॥15॥

  16. ॥16॥

  17. ॥17॥

  18. ॥18॥

  19. ॥19॥

  20. ॥20॥

  21. ॥21॥

  22. ॥22॥

  23. ॥23॥

  24. ॥24॥

  25. ॥25॥

  26. ॥26॥

  27. अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति

    atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyamiti

  28. तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात्

    taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ yadvāva vijijñāsitavyamiti sa brūyāt

  29. यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति

    yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya akāśa ubhe asmindyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca sūryācandramasāvubhau vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṃ tadasminsamāhitamiti

  30. तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति

    taṃ cedbrūyurasmiṃścedidaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti pradhvaṃsate vā kiṃ tato'tiśiṣyata iti

  31. स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति

    sa brūyātnāsya jarayaitajjīryati na vadhenāsya hanyata etatsatyaṃ brahmapuramasmikāmāḥ samāhitāḥ eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpo yathā hyeveha prajā anvāviśanti yathānuśāsanam yaṃ yamantamabhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tamevopajīvanti

  32. तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति

    tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate tadya ihātmānamanuvidya vrajantyetāṃśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣvakāmacāro bhavatyatha ya ihātmānamanivudya vrajantyetaṃśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati

  33. स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते

    sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate

  34. अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते

    atha yadi mātṛlokakāmo bhavati saṃkalpādevāsya mātaraḥ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate

  35. अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते

    atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate

  36. अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते

    atha yadi svasṛlokakāmo bhavati saṃkalpādevāsya svasāraḥ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate

  37. अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते

    atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ samuttiṣṭhanti tena sakhilokena sampanno mahīyate

  38. अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते

    atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno mahīyate

  39. अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते

    atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne samuttiṣṭhatastenānnapānalokena sampanno mahīyate

  40. अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते

    atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno mahīyate

  41. अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते

    atha yadi strīlokakāmo bhavati saṃkalpādevāsya striyaḥ samuttiṣṭhanti tena strīlokena sampanno mahīyate

  42. ChU 8.2.10Open verse →

    यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते

    yaṃ yamantamabhikāmo bhavati yaṃ kāmaṃ kāmayate so'sya saṃkalpādeva samuttiṣṭhati tena sampanno mahīyate

  43. त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते

    ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṃ satyānāṃ satāmanṛtamapidhānaṃ yo yo hyasyetaḥ praiti na tamiha darśanāya labhate

  44. अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः

    atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna labhate sarvaṃ tadatra gatvā vindate'tra hyasyaite satyāḥ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṃ nihitamakṣetrajñā uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindantyanṛtena hi pratyūḍhāḥ

  45. स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति

    sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmāddhṛdayamaharaharvā evaṃvitsvargaṃ lokameti

  46. अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति

    atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya brahmaṇo nāma satyamiti

  47. तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति

    tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṃvitsvargaṃ lokameti

  48. अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः

    atha ya ātmā sa seturdhṛtireṣāṃ lokānāmasaṃbhedāya naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na duṣkṛtaṃ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ

  49. तस्माद्वा एतं सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः

    tasmādvā etaṃ setuṃ tīrtvāndhaḥ sannanandho bhavati viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati tasmādvā etaṃ setuṃ tīrtvāpi naktamaharevābhiniṣpadyate sakṛdvibhāto hyevaiṣa brahmalokaḥ

  50. तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति

    tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāṃ sarveṣu lokeṣu kāmacāro bhavati

  51. अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते

    atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva yo jñātā taṃ vindate'tha yadiṣṭamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate

  52. अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते '

    atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva sata ātmanastrāṇaṃ vindate'tha yanmaunamityācakṣate brahmacaryameva tabbrahmacaryeṇa hyevātmānamanuvidya manute '

  53. अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्

    atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate'tha yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṃ madīyaṃ sarastadaśvatthaḥ somasavanastadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam

  54. तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति

    tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāṃ sarveṣu lokeṣu kāmacāro bhavati

  55. अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः

    atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ

  56. तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः

    tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ

  57. तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति

    tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpto bhavati taṃ na kaścana pāpmā spṛśati tejasā hi tadā sampanno bhavati

  58. अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति

    atha yatraitadabalimānaṃ nīto bhavati tamabhita āsīnā āhurjānāsi māṃ jānāsi māmiti sa yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti

  59. अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम्

    atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho'viduṣām

  60. तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति

    tadeṣa ślokaḥ | śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā | tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti

  61. य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच

    ya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca

  62. तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः

    taddhobhaye devāsurā anububudhire te hocurhanta tamātmānamanvecchāmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmānitīndro haiva devānāmabhipravavrāja virocano'surāṇāṃ tau hāsaṃvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ

  63. तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति

    tau ha dvātriṃśataṃ varṣāṇi brahmacaryamūṣatustau ha prajāpatiruvāca kimicchantāvāstamiti tau hocaturya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco vedayante tamicchantāvavāstamiti

  64. तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच

    tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṃ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca

  65. उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपमिति

    udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme prabrūtamiti tau hodaśarāve'vekṣāṃcakrāte tau ha prajāpatiruvāca kiṃ paśyatha iti tau hocatuḥ sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpamiti

  66. तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति

    tau ha prajāpatiruvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāṃcakrāte tau ha prajāpatiruvāca kiṃ paśyatha iti

  67. तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः

    tau hocaturyathaivedamāvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tau ha śāntahṛdayau pravavrajatuḥ

  68. तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति

    tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te parābhaviṣyantīti sa ha śāntahṛdaya eva virocano'surāñjagāma tebhyo haitāmupaniṣadaṃ provācātmaiveha mahayya ātmā paricarya ātmānameveha mahayannātmānaṃ paricarannubhau lokāvavāpnotīmaṃ cāmuṃ ceti

  69. तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते

    tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro batetyasurāṇāṃ hyeṣopaniṣatpretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvantyetena hyamuṃ lokaṃ jeṣyanto manyante

  70. अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति

    atha hendro'prāpyaiva devānetadbhayaṃ dadarśa yathaiva khalvayamasmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṃ paśyāmīti

  71. स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति

    sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṃ bhagavo'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṃ paśyāmīti

  72. एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच

    evamevaiṣa maghavanniti hovācaitaṃ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃśataṃ varṣāṇīti sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa tasmai hovāca

  73. ChU 8.10.1Open verse →

    य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति

    ya eṣa svapne mahīyamānaścaratyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa tadyadyapīdaṃ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati

  74. ChU 8.10.2Open verse →

    न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति

    na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṃ paśyāmīti

  75. ChU 8.10.3Open verse →

    स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति

    sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca tadyadyapīdaṃ bhagavaḥ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati

  76. ChU 8.10.4Open verse →

    न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच

    na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṃ paśyāmītyevamevaiṣa maghavanniti hovācaitaṃ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃśataṃ varṣāṇīti sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa tasmai hovāca

  77. ChU 8.11.1Open verse →

    तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति

    tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa nāha khalvayamevaṃ sampratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti

  78. ChU 8.11.2Open verse →

    स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति

    sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca nāha khalvayaṃ bhagava evaṃ sampratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti

  79. ChU 8.11.3Open verse →

    एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतं सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच

    evamevaiṣa maghavanniti hovācaitaṃ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa tānyekaśataṃ sampeduretattadyadāhurekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca

  80. ChU 8.12.1Open verse →

    मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः

    maghavanmartyaṃ vā idaṃ śarīramāttaṃ mṛtyunā tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai saśarīraḥ priyāpriyābhyāṃ na vai saśarīrasya sataḥ priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ

  81. ChU 8.12.2Open verse →

    अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते

    aśarīro vāyurabhraṃ vidyutstanayitnuraśarīrāṇyetāni tadyathaitānyamuṣmādākāśātsamutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyante

  82. ChU 8.12.3Open verse →

    एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः

    evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ sa tatra paryeti jakṣatkrīḍanramamāṇaḥ strībhirvā yānairvā jñātibhirvā nopajanaṃ smarannidaṃ śarīraṃ sa yathā prayogya ācaraṇe yukta evamevāyamasmiñcharīre prāṇo yuktaḥ

  83. ChU 8.12.4Open verse →

    अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम्

    atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa ātmābhivyāhārāya vāgatha yo vededaṃ śṛṇavānīti sa ātmā śravaṇāya śrotram

  84. ChU 8.12.5Open verse →

    अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके

    atha yo vededaṃ manvānīti sātmā mano'sya daivaṃ cakṣuḥ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate ya ete brahmaloke

  85. ChU 8.12.6Open verse →

    तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्र्जापतिरुवाच प्रजापतिरुवाच

    taṃ vā etaṃ devā ātmānamupāsate tasmātteṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānātīti ha prjāpatiruvāca prajāpatiruvāca

  86. ChU 8.13.1Open verse →

    श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति

    śyāmācchabalaṃ prapadye śabalācchyāmaṃ prapadye'śva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmītyabhisaṃbhavāmīti

  87. ChU 8.14.1Open verse →

    आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम्

    ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṃ sa ātmā prajāpateḥ sabhāṃ veśma prapadye yaśo'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñāṃ yaśoviśāṃ yaśo'hamanuprāpatsi sa hāhaṃ yaśasāṃ yaśaḥ śyetamadatkamadatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām

  88. ChU 8.15.1Open verse →

    तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते

    tadhaitadbrahmā prajāpatayai uvāca prajāpatirmanave manuḥ prajābhyaḥ ācāryakulādvedamadhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyāno dharmikānvidadhadātmani sarvaindriyāṇi sampratiṣṭhāpyāhiṃsansarva bhūtānyanyatra tīrthebhyaḥ sa khalvevaṃ vartayanyāvadāyuṣaṃ brahmalokamabhisampadyate na ca punarāvartate na ca punarāvartate