Bilvashtakam · अध्याय 1
Verses
श्लोकाः
The 8 verses of the Bilvashtakam.
- BA 1Open verse →
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम्
tridalaṃ triguṇākāraṃ trinetraṃ ca triyāyudham | trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam
- BA 2Open verse →
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्
triśākhaiḥ bilvapatraiśca hyacchidraiḥ komalaiḥ śubhaiḥ | śivapūjāṃ kariṣyāmi hyekabilvaṃ śivārpaṇam
- BA 3Open verse →
अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्
akhaṇḍa bilva patreṇa pūjite nandikeśvare | śuddhyanti sarvapāpebhyo hyekabilvaṃ śivārpaṇam
- BA 4Open verse →
शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम्
śāligrāma śilāmekāṃ viprāṇāṃ jātu cārpayet | somayajña mahāpuṇyaṃ ekabilvaṃ śivārpaṇam
- BA 5Open verse →
दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम्
dantikoṭi sahasrāṇi vājapeya śatāni ca | koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇam
- BA 6Open verse →
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्
lakṣmyāstanuta utpannaṃ mahādevasya ca priyam | bilvavṛkṣaṃ prayacchāmi hyekabilvaṃ śivārpaṇam
- BA 7Open verse →
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम्
darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam | aghorapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam
- BA 8Open verse →
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम्
kāśīkṣetranivāsaṃ ca kālabhairavadarśanam | prayāgamādhavaṃ dṛṣṭvā hyekabilvaṃ śivārpaṇam || mūlato brahmarūpāya madhyato viṣṇurūpiṇe | agrataḥ śivarūpāya hyekabilvaṃ śivārpaṇam