9.24 (For) I alone am the enjoyer and also the Lord of all sacrifices; but they do not know Me in essence (in reality), and hence they fall (return to this mortal world).
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||९-२४||
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||
BG 9.24
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.24।। क्योंकि सब यज्ञों का भोक्ता और स्वामी मैं ही हूँ, परन्तु वे मुझे तत्त्वत: नहीं जानते हैं, इसलिए वे गिरते हैं, अर्थात् संसार को प्राप्त होते हैं।।
कस्मात् ते ऽविधि-पूर्वकं यजन्त इत्य् उच्यते । यस्मात् - अहं हि सर्व-यज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुर् एव च । मत्-स्वामिको हि यज्ञः, अधियज्ञो ऽहम् एवात्र [गीता ८।४] इति ह्य् उक्तम् । तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश् चाविधि-पूर्वकम् इष्ट्वा याग-फलाच् च्यवन्ति प्रच्यवन्ते ते
kasmāt te 'vidhi-pūrvakaṃ yajanta ity ucyate | yasmāt - ahaṃ hi sarva-yajñānāṃ śrautānāṃ smārtānāṃ ca sarveṣāṃ yajñānāṃ devatātmatvena bhoktā ca prabhur eva ca | mat-svāmiko hi yajñaḥ, adhiyajño 'ham evātra [gītā 8.4] iti hy uktam | tathā na tu mām abhijānanti tattvena yathāvat | ataś cāvidhi-pūrvakam iṣṭvā yāga-phalāc cyavanti pracyavante te