9.23 Even those devotees who, endowed with faith, worship other gods, worship Me alone, O Arjuna, b the wrong method.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||९-२३||
ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||
BG 9.23
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.23।। हे कौन्तेय ! श्रद्धा से युक्त जो भक्त अन्य देवताओं को पूजते हैं, वे भी मुझे ही अविधिपूर्वक पूजते हैं।।
नन्व् अन्यापि देवतास् त्वम् एव चेत् तद्-भक्ताश् च त्वाम् एव यजन्ते । सत्यम् एवम् - ये ऽप्य् अन्य-देवता-भक्ता अन्यासु देवतासु भक्ता अन्य-देवता-भक्ताः सन्तो यजन्ते पूजयन्ति श्रद्धया आस्तिक्य-बुद्ध्यान्विता अनुगताः, ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं यजन्त इत्य् अर्थः
nanv anyāpi devatās tvam eva cet tad-bhaktāś ca tvām eva yajante | satyam evam - ye 'py anya-devatā-bhaktā anyāsu devatāsu bhaktā anya-devatā-bhaktāḥ santo yajante pūjayanti śraddhayā āstikya-buddhyānvitā anugatāḥ, te 'pi mām eva kaunteya yajanty avidhi-pūrvakam avidhir ajñānaṃ tat-pūrvakaṃ yajanta ity arthaḥ