9.2 This is the kingl science, the kingly secret, the supreme purifier, realisable by direct intuitional knowledge, according to righteousness, very easy to perform and imperishable.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||९-२||
rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||
BG 9.2
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.2।। यह ज्ञान राजविद्या (विद्याओं का राजा) और राजगुह्य (सब गुह्यों अर्थात् रहस्यों का राजा) एवं पवित्र, उत्तम, प्रत्यक्ष ज्ञानवाला और धर्मयुक्त है, तथा करने में सरल और अव्यय है।।
तच् च - राज-विद्या विद्यानां राजा, दीप्त्य्-अतिशयवत्त्वात् । दीप्यते हीयम् अतिशयेन ब्रह्म-विद्या सर्व-विद्यानाम् । तथा राज-गुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धि-कारणं ब्रह्म-ज्ञानम् उत्कृष्टतमम् । अनेक-जन्म-सहस्र-संचितम् अपि धर्माधर्मादि स-मूलं कर्म क्षण-मात्राद् एव भस्मीकरोतीत्य् अतः किं तस्य पावनत्वं वक्तव्यम् ? किं च - प्रत्यक्षावगमं प्रत्यक्षेण सुखादेर् इवावगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतो ऽपि धर्म-विरुद्धत्वं दृष्टम्, न तथात्म-ज्ञानं धर्म-विरोधि, किंतु धर्म्यं धर्माद् अनपेतम् । एवम् अपि, स्याद् दुःख-संपाद्यम् इत्य् अत आह - सुसुखं कर्तुम्, यथा रत्न-विवेक-विज्ञानम् । तत्राल्पायासानाम् अन्येषां कर्मणां सुख-संपाद्यानाम् अल्प-फलत्वं दुष्कराणां च महा-फलत्वं दृष्टम् इति, इदं तु सुख-संपाद्यत्वात् फल-क्षयात् व्येतीति प्राप्ते, आह - अव्ययम् इति । नास्य फलतः कर्मवत् व्ययो ऽस्तीत्य् अव्ययम् । अतः श्रद्धेयम् आत्म-ज्ञानम्
tac ca - rāja-vidyā vidyānāṃ rājā, dīpty-atiśayavattvāt | dīpyate hīyam atiśayena brahma-vidyā sarva-vidyānām | tathā rāja-guhyaṃ guhyānāṃ rājā | pavitraṃ pāvanaṃ idam uttamaṃ sarveṣāṃ pāvanānāṃ śuddhi-kāraṇaṃ brahma-jñānam utkṛṣṭatamam | aneka-janma-sahasra-saṃcitam api dharmādharmādi sa-mūlaṃ karma kṣaṇa-mātrād eva bhasmīkarotīty ataḥ kiṃ tasya pāvanatvaṃ vaktavyam ? kiṃ ca - pratyakṣāvagamaṃ pratyakṣeṇa sukhāder ivāvagamo yasya tat pratyakṣāvagamam | aneka-guṇavato 'pi dharma-viruddhatvaṃ dṛṣṭam, na tathātma-jñānaṃ dharma-virodhi, kiṃtu dharmyaṃ dharmād anapetam | evam api, syād duḥkha-saṃpādyam ity ata āha - susukhaṃ kartum, yathā ratna-viveka-vijñānam | tatrālpāyāsānām anyeṣāṃ karmaṇāṃ sukha-saṃpādyānām alpa-phalatvaṃ duṣkarāṇāṃ ca mahā-phalatvaṃ dṛṣṭam iti, idaṃ tu sukha-saṃpādyatvāt phala-kṣayāt vyetīti prāpte, āha - avyayam iti | nāsya phalataḥ karmavat vyayo 'stīty avyayam | ataḥ śraddheyam ātma-jñānam