9.19 (As the sun) I give heat; I withhold and send forth the rain; I am immortality and also death, existence and non-existence, O Arjuna.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||९-१९||
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||
BG 9.19
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.19।। हे अर्जुन ! मैं ही (सूर्य रूप में) तपता हूँ; मैं वर्षा का निग्रह और उत्सर्जन करता हूँ। मैं ही अमृत और मृत्यु एवं सत् और असत् हूँ।।
किं च - तपाम्य् अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिर् उल्बणैः । अहं वर्षं कैश्चिद् रश्मिभिर् उत्सृजामि । उत्सृज्य पुनर् निगृह्णामि कैश्चिद् रश्मिभिर् अष्टभिर् मासैः पुनर् उत्सृजामि प्रावृषि । अमृतं चैव देवानाम्, मृत्युश् च मर्त्यानाम् । सद् यस्य यत् संबन्धितया विद्यमानं तत्, तद्-विपरीतम् असच् चैवाहम् अर्जुन । न पुनर् अत्यन्तम् एवासद् भगवान्, स्वयं कार्य-कारणे वा सद्-असती
kiṃ ca - tapāmy aham ādityo bhūtvā kaiścit raśmibhir ulbaṇaiḥ | ahaṃ varṣaṃ kaiścid raśmibhir utsṛjāmi | utsṛjya punar nigṛhṇāmi kaiścid raśmibhir aṣṭabhir māsaiḥ punar utsṛjāmi prāvṛṣi | amṛtaṃ caiva devānām, mṛtyuś ca martyānām | sad yasya yat saṃbandhitayā vidyamānaṃ tat, tad-viparītam asac caivāham arjuna | na punar atyantam evāsad bhagavān, svayaṃ kārya-kāraṇe vā sad-asatī