9.16 I am the Kratu; I am the Yajna; I am the offering (food) to the manes; I am the medicinal herbs and all the plants; I am the Mantra; I am also the Ghee or the melted butter; I am the fire; I am the oblation.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् | मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||९-१६||
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||
BG 9.16
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.16।। मैं ऋक्रतु हूँ; मैं यज्ञ हूँ; स्वधा और औषध मैं हूँ, मैं मन्त्र हूँ, घी हूँ, मैं अग्नि हूँ और हुतं अर्थात् हवन कर्म मैं हूँ।।
यदि बहुभिः प्रकारैर् उपासते, कथं त्वाम् एव उपासत इति । अत आह - अहं क्रतुः श्रौत-कर्म-भेदो ऽहम् एव । अहं यज्ञः स्मार्तः । किं च स्वधान्नम् अहम्, पितृभ्यो यद् दीयते । अहम् औषधं सर्व-प्राणिभिर् यत् अद्यते तत् औषध-शब्द-शब्दितं व्रीहि-यवादि-साधारणम् । अथवा स्वधेति सर्व-प्राणि-साधारणम् अन्नम्, औषधम् इति व्याध्य्-उपशमनार्थं भेषजम् । मन्त्रो ऽहम्, येन पितृभ्यो देवताभ्यश् च हविर् दीयते । अहम् एव आज्यं हविश् च । अहम् अग्निः, यस्मिन् हूते हविः सो ऽग्निर् अहम् । अहं हुतं हवन-कर्मश् च
yadi bahubhiḥ prakārair upāsate, kathaṃ tvām eva upāsata iti | ata āha - ahaṃ kratuḥ śrauta-karma-bhedo 'ham eva | ahaṃ yajñaḥ smārtaḥ | kiṃ ca svadhānnam aham, pitṛbhyo yad dīyate | aham auṣadhaṃ sarva-prāṇibhir yat adyate tat auṣadha-śabda-śabditaṃ vrīhi-yavādi-sādhāraṇam | athavā svadheti sarva-prāṇi-sādhāraṇam annam, auṣadham iti vyādhy-upaśamanārthaṃ bheṣajam | mantro 'ham, yena pitṛbhyo devatābhyaś ca havir dīyate | aham eva ājyaṃ haviś ca | aham agniḥ, yasmin hūte haviḥ so 'gnir aham | ahaṃ hutaṃ havana-karmaś ca