9.1 The Blessed Lord said I shall now declare to thee who does not cavil, the greatest secret, the knowledge combined with experience (Self-realisation). Having known this thou shalt be free evil.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
श्रीभगवानुवाच | इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||९-१||
śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||
BG 9.1
Audio
Translations & commentaries(4)
Sūtra — Translation
।।9.1।। श्रीभगवान् ने कहा -- तुम अनसूयु (दोष दृष्टि रहित) के लिए मैं इस गुह्यतम ज्ञान को विज्ञान के सहित कहूँगा, जिसको जानकर तुम अशुभ (संसार बंधन) से मुक्त हो जाओगे।।
(शाङ्कर-भाष्यः) अष्टमे नाड्य्-आदि-द्वारेण धारणा-योगः सगुण उक्तः । तस्य च फलम् अग्न्य्-अर्चिर्-आदि-क्रमेण कालान्तरे ब्रह्म-प्राप्ति-लक्षणम् एवानावृत्ति-रूपं निर्दिष्टम् । तत्रानेनैव प्रकारेण मोक्ष-प्राप्ति-फलम् अधिगम्यते, नान्यथा इति तद् आशङ्का-व्याविवर्तयिषया श्री-भगवान् उवाच - इदं ब्रह्म-ज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्य् आह । तु-शब्दो विशेष-निर्धारणार्थः । इदम् एव तु सम्यग्-ज्ञानं साक्षात् मोक्ष-प्राप्ति-साधनम् वासुदेवः सर्वम् इति [गीता ७।१२], आत्मैवेदं सर्वम् [छाउ ७।२५।२] एकम् एवाद्वितीयम् [छाउ ६।२।१] इत्य् आदि-श्रुति-स्मृतिभ्यः । नान्यत्, अथ ते ये ऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति [छाउ ७।२५।२] इत्य् आदि-श्रुतिभ्यश् च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्य् अनसूयवे ऽसूया-रहिताय । किं तत् ? ज्ञानम् । किं-विशिष्टम् ? विज्ञान-सहितम् अनुभव-युक्तम्, यज् ज्ञात्वा प्राप्य मोक्ष्यसे ऽशुभात् संसार-बन्धनात्
(śāṅkara-bhāṣyaḥ) aṣṭame nāḍy-ādi-dvāreṇa dhāraṇā-yogaḥ saguṇa uktaḥ | tasya ca phalam agny-arcir-ādi-krameṇa kālāntare brahma-prāpti-lakṣaṇam evānāvṛtti-rūpaṃ nirdiṣṭam | tatrānenaiva prakāreṇa mokṣa-prāpti-phalam adhigamyate, nānyathā iti tad āśaṅkā-vyāvivartayiṣayā śrī-bhagavān uvāca - idaṃ brahma-jñānaṃ vakṣyamāṇam uktaṃ ca pūrveṣu adhyāyeṣu, tat buddhau saṃnidhīkṛtya idam ity āha | tu-śabdo viśeṣa-nirdhāraṇārthaḥ | idam eva tu samyag-jñānaṃ sākṣāt mokṣa-prāpti-sādhanam vāsudevaḥ sarvam iti [gītā 7.12], ātmaivedaṃ sarvam [chāu 7.25.2] ekam evādvitīyam [chāu 6.2.1] ity ādi-śruti-smṛtibhyaḥ | nānyat, atha te ye 'nyathāto vidur anya-rājānas te kṣayya-lokā bhavanti [chāu 7.25.2] ity ādi-śrutibhyaś ca | te tubhyaṃ guhyatamaṃ gopyatamaṃ pravakṣyāmi kathayiṣyāmy anasūyave 'sūyā-rahitāya | kiṃ tat ? jñānam | kiṃ-viśiṣṭam ? vijñāna-sahitam anubhava-yuktam, yaj jñātvā prāpya mokṣyase 'śubhāt saṃsāra-bandhanāt