7.12 Whatever beings (and objects) that are pure, active and inert, know that they proceed from Me. They are in Me, yet I am not in them.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये | मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||७-१२||
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||
BG 7.12
Audio
Translations & commentaries(4)
Sūtra — Translation
।।7.12।। जो भी सात्त्विक (शुद्ध), राजसिक (क्रियाशील) और तामसिक (जड़) भाव हैं, उन सबको तुम मेरे से उत्पन्न हुए जानो; तथापि मैं उनमें नहीं हूँ, वे मुझमें हैं।।
किं च - ये चैव सात्त्विकाः सत्त्व-निर्वृत्ता भावाः पदार्थाः, राजसाः रजो-निर्वृत्तास् तामसास् तमो-निर्वृत्ताश् च, ये केचित् प्राणिनां स्व-कर्म-वशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तान् एव । एवं यद्य् अपि ते मत्तो जायन्ते, तथापि न त्व् अहं तेषु तद्-अधीनस् तद्-वशः, यथा संसारिणः । ते पुनर् मयि मद्-वशाः मद्-अधीनाः
kiṃ ca - ye caiva sāttvikāḥ sattva-nirvṛttā bhāvāḥ padārthāḥ, rājasāḥ rajo-nirvṛttās tāmasās tamo-nirvṛttāś ca, ye kecit prāṇināṃ sva-karma-vaśāt jāyante bhāvāḥ, tān matta eva jāyamānān iti evaṃ viddhi sarvān samastān eva | evaṃ yady api te matto jāyante, tathāpi na tv ahaṃ teṣu tad-adhīnas tad-vaśaḥ, yathā saṃsāriṇaḥ | te punar mayi mad-vaśāḥ mad-adhīnāḥ