6.9 He who is of the same mind to the good-hearted, friends, enemies, the indifferent, the neutral, the hateful, the relatives, the righteous and the unrighteous, excels.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||६-९||
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||
BG 6.9
Audio
Translations & commentaries(4)
Sūtra — Translation
।।6.9।। जो पुरुष सुहृद्, मित्र, शत्रु, उदासीन, मध्यस्थ, द्वेषी और बान्धवों में तथा धर्मात्माओं में और पापियों में भी समान भाव वाला है, वह श्रेष्ठ है।।
किं च - सुहृद् इत्य् आदि लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारम् अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित् पक्षं भजते, मध्य-स्थो यो विरुद्धयोर् उभयोः हितैषी, द्वेष्य आत्मनो ऽप्रियः, बन्धुः संबन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेष्व् एतेषु सम-बुद्धिः । कः किं-कर्मा इत्य् अव्यापृत-बुद्धिर् इत्य् अर्थः । विशिष्यते, विमुच्यते इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्य् अर्थः
kiṃ ca - suhṛd ity ādi lokārdham ekaṃ padam | suhṛt iti pratyupakāram anapekṣya upakartā, mitraṃ snehavān, ariḥ śatruḥ, udāsīno na kasyacit pakṣaṃ bhajate, madhya-stho yo viruddhayor ubhayoḥ hitaiṣī, dveṣya ātmano 'priyaḥ, bandhuḥ saṃbandhī ity eteṣu sādhuṣu śāstrānuvartiṣu api ca pāpeṣu pratiṣiddha-kāriṣu sarveṣv eteṣu sama-buddhiḥ | kaḥ kiṃ-karmā ity avyāpṛta-buddhir ity arthaḥ | viśiṣyate, vimucyate iti vā pāṭhāntaram | yogārūḍhānāṃ sarveṣām ayam uttama ity arthaḥ