6.8 The Yogi who is satisfied with the knowledge and the wisdom (of the Self), who has conered the senses, and to whom a clod of earth, a piece of stone and gold are the same, is said to be harmonied (i.e., is said to have attained Nirvikalpa Samadhi).
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||६-८||
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||
BG 6.8
Audio
Translations & commentaries(4)
Sūtra — Translation
।।6.8।। जो योगी ज्ञान और विज्ञान से तृप्त है, जो विकार रहित (कूटस्थ) और जितेन्द्रिय है, जिसको मिट्टी, पाषाण और कंचन समान है, वह (परमात्मा से) युक्त कहलाता है।।
ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः संजातालं-प्रत्ययः आत्मान्तः-करणं यस्य स ज्ञान-विज्ञान-तृप्तात्मा, कूटास्थो ऽप्रकम्प्यः, भवतीत्य् अर्थः । विजितेन्द्रियश् च । य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते । स योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म-काञ्चनः
jñāna-vijñāna-tṛptātmā jñānaṃ śāstrokta-padārthānāṃ parijñānam, vijñānaṃ tu śāstrato jñātānāṃ tathaiva svānubhava-karaṇam, tābhyāṃ jñāna-vijñānābhyāṃ tṛptaḥ saṃjātālaṃ-pratyayaḥ ātmāntaḥ-karaṇaṃ yasya sa jñāna-vijñāna-tṛptātmā, kūṭāstho 'prakampyaḥ, bhavatīty arthaḥ | vijitendriyaś ca | ya īdṛśaḥ, yuktaḥ samāhita iti sa ucyate kathyate | sa yogī sama-loṣṭāśma-kāñcanaḥ loṣṭāśma-kāñcanāni samāni yasya saḥ sama-loṣṭāśma-kāñcanaḥ