The mind is restless, O Krishna — turbulent, strong, obstinate. To control it is, I think, as hard as to control the wind.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣkaram
BG 6.34
Audio
Translations & commentaries(3)
Sūtra — Translation
असिद्धम् तत् - चञ्चलं हि मनः । कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् । भक्त-जन-पापादि-दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति । किं च - बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च - दृढं तन्तु-नाग-वद् अच्छेद्यम् । तस्य एवंभूतस्य मनसो ऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततो ऽपि दुष्करं मन्ये इत्य् अभिप्रायः
asiddham tat - cañcalaṃ hi manaḥ | kṛṣṇeti kṛṣater vilekhanārthasya rūpam | bhakta-jana-pāpādi-doṣākarṣāṇāt kṛṣṇaḥ, tasya saṃbuddhiḥ he kṛṣṇa | hi yasmāt manaś cañcalaṃ na kevalam atyarthaṃ cañcalam, pramāthi ca pramathana-śīlam, pramathnāti śarīram indriyāṇi ca vikṣipat sat para-vaśīkaroti | kiṃ ca - balavat prabalam, na kenacit niyantuṃ śakyam, durnivāratvāt | kiṃ ca - dṛḍhaṃ tantu-nāga-vad acchedyam | tasya evaṃbhūtasya manaso 'haṃ nigrahaṃ nirodhaṃ manye vāyor iva yathā vāyor duṣkaro nigrahas tato 'pi duṣkaraṃ manye ity abhiprāyaḥ