6.21 When he (the Yogi) feels that Infinite Bliss which can be grasped by the (pure) intellect and which transcends the senses, and established wherein he never moves from the Reality.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||६-२१||
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||
BG 6.21
Audio
Translations & commentaries(4)
Sūtra — Translation
।।6.21।। जो सुख आत्यन्तिक, अतीन्द्रिय और बुध्दिग्राह्म है, उस सुखका जिस अवस्थामें अनुभव करता है और जिस सुखमें स्थित हुआ यह ध्यानयोगी फिर कभी तत्वसे विचलित नहीं होता है।।
किं च - सुखम् आत्यन्तिकम् अत्यन्तम् एव भवतीत्य् आत्यन्तिकम् अनन्तम् इत्य् अर्थः, यत् तत् बुद्धि-ग्राह्यं बुद्ध्यैव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय-गोचरातीतम् अविषय-जनितम् इत्य् अर्थः, वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न चैवायं विद्वान् आत्म-स्वरूपे स्थितस् तस्मान् नैव चलति तत्त्वतस् तत्त्व-स्वरूपान् न प्रच्यवत इत्य् अर्थः
kiṃ ca - sukham ātyantikam atyantam eva bhavatīty ātyantikam anantam ity arthaḥ, yat tat buddhi-grāhyaṃ buddhyaiva indriya-nirapekṣayā gṛhyate iti buddhi-grāhyam atīndriyam indriya-gocarātītam aviṣaya-janitam ity arthaḥ, vetti tad īdṛśaṃ sukham anubhavati yatra yasmin kāle, na caivāyaṃ vidvān ātma-svarūpe sthitas tasmān naiva calati tattvatas tattva-svarūpān na pracyavata ity arthaḥ