6.2 Do thou, O Arjuna, know Yoga to be that which they call renunciation; no one verily becomes a Yogi who has not renounced thoughts.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||६-२||
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||
BG 6.2
Audio
Translations & commentaries(4)
Sūtra — Translation
।।6.2।। हे पाण्डव ! जिसको (शास्त्रवित्) संन्यास कहते हैं, उसी को तुम योग समझो; क्योंकि संकल्पों को न त्यागने वाला कोई भी पुरुष योगी नहीं होता।।
ननु च निरग्नेः अक्रियस्यैव श्रुति-स्मृति-योग-शास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् । कथम् इह साग्नेः स-क्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धम् उच्यत इति । नैष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य संपिपादयिषितत्वात् । तत् कथम् ? कर्म-फल-संकल्प-संन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल-संकल्पस्य च चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं चेति गौणम् उभयम् । न पुनर् मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतम् इत्य् एतम् अर्थं दर्शयितुम् आह - यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-संन्यासं संन्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-संन्यासं विद्धि जानीहि हे पाण्डाव । कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ-संन्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्-भाव उच्यते इत्य् अपेक्षायाम् इदम् उच्यते - अस्ति हि परमार्थ-संन्यासेन सादृश्यं कर्तृ-द्वारकं कर्म-योगस्य । यो हि परमार्थ-संन्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं संकल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति । अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल-विषयं संकल्पं संन्यस्यतीति । एतम् अर्थं दर्शयिष्यन्न् आह - न हि यस्माद् असंन्यस्त-संकल्पो ऽसंन्यस्तो ऽपरित्यक्तः सङ्कल्पो ऽभिसन्धिर् येन सो ऽसंन्यस्त-सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति । न संभवतीत्य् अर्थः । फल-संकल्पस्य चित्त-विक्षेप-हेतुत्वात् । तस्माद् यः कश्चन कर्मी संन्यस्त-फल-संकल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत् । चित्त-विक्षेप-हेतोः फल-संकल्पस्य संन्यस्तत्वाद् इत्य् अभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात् कर्म-फल-सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागात् योगित्वं चेति संन्यासित्वं चेत्य् अभिप्रेतम् उच्यते ।[*नोते: थिस् लस्त् सेन्तेन्चे नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स्।]
nanu ca niragneḥ akriyasyaiva śruti-smṛti-yoga-śāstreṣu saṃnyāsitvaṃ yogitvaṃ ca prasiddham | katham iha sāgneḥ sa-kriyasya ca saṃnyāsitvaṃ yogitvaṃ cāprasiddham ucyata iti | naiṣa doṣaḥ, kayācid guṇa-vṛttyā ubhayasya saṃpipādayiṣitatvāt | tat katham ? karma-phala-saṃkalpa-saṃnyāsāt saṃnyāsitvam, yogāṅgatvena ca karmānuṣṭhānāt karma-phala-saṃkalpasya ca citta-vikṣepa-hetoḥ parityāgād yogitvaṃ ceti gauṇam ubhayam | na punar mukhyaṃ saṃnyāsitvaṃ yogitvaṃ cābhipretam ity etam arthaṃ darśayitum āha - yaṃ sarva-karma-tat-phala-parityāga-lakṣaṇaṃ paramārtha-saṃnyāsaṃ saṃnyāsam iti prāhuḥ śruti-smṛti-vidaḥ, yogaṃ karmānuṣṭhāna-lakṣaṇaṃ taṃ paramārtha-saṃnyāsaṃ viddhi jānīhi he pāṇḍāva | karma-yogasya pravṛtti-lakṣaṇasya tad-viparītena nivṛtti-lakṣaṇena paramārtha-saṃnyāsena kīdṛśaṃ sāmānyam aṅgīkṛtya tad-bhāva ucyate ity apekṣāyām idam ucyate - asti hi paramārtha-saṃnyāsena sādṛśyaṃ kartṛ-dvārakaṃ karma-yogasya | yo hi paramārtha-saṃnyāsī sa tyakta-sarva-karma-sādhanatayā sarva-karma-tat-phala-viṣayaṃ saṃkalpaṃ pravṛtti-hetu-kāma-kāraṇaṃ saṃnyasyati | ayam api karma-yogī karma kurvāṇa eva phala-viṣayaṃ saṃkalpaṃ saṃnyasyatīti | etam arthaṃ darśayiṣyann āha - na hi yasmād asaṃnyasta-saṃkalpo 'saṃnyasto 'parityaktaḥ saṅkalpo 'bhisandhir yena so 'saṃnyasta-saṅkalpaḥ kaścana kaścid api karmī yogī samādhānavān bhavati | na saṃbhavatīty arthaḥ | phala-saṃkalpasya citta-vikṣepa-hetutvāt | tasmād yaḥ kaścana karmī saṃnyasta-phala-saṃkalpo bhavet sa yogī samādhānavān avikṣipta-citto bhavet | citta-vikṣepa-hetoḥ phala-saṃkalpasya saṃnyastatvād ity abhiprāyaḥ | yogāṅgatvena karmānuṣṭhānāt karma-phala-saṅkalpasya vā citta-vikṣepa-hetoḥ parityāgāt yogitvaṃ ceti saṃnyāsitvaṃ cety abhipretam ucyate |[*note: this last sentence not found in all editions.]