6.18 When the perfectly controlled mind rests in the Self only, free from longing for all the objects of desires, then it is said, 'He is united'.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||६-१८||
yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||
BG 6.18
Audio
Translations & commentaries(4)
Sūtra — Translation
।।6.18।। वश में किया हुआ चित्त जिस कालमें अपने स्वरुपमें ही स्थित हो जाता है और स्वयं सम्पूर्ण पदार्थों नि: स्पृह हो जाता है, उस कालमें वह योगी कहा जाता है।
अथाधुना कदा युक्तो भवति ? इत्य् उच्यते - यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ-चिन्ताम् आत्मन्य् एव केवले ऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्य् अर्थः । निःस्पृहः सर्व-कामेभ्यो निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्य् उच्यते तदा तस्मिन् काले
athādhunā kadā yukto bhavati ? ity ucyate - yadā viniyataṃ viśeṣeṇa niyataṃ saṃyatam ekāgratām āpannaṃ cittaṃ hitvā bāhyārtha-cintām ātmany eva kevale 'vatiṣṭhate, svātmani sthitiṃ labhate ity arthaḥ | niḥspṛhaḥ sarva-kāmebhyo nirgatā dṛṣṭādṛṣṭa-viṣayebhyaḥ spṛhā tṛṣṇā yasya yoginaḥ sa yuktaḥ samāhita ity ucyate tadā tasmin kāle