5.8 "I do nothing at all," thus would the harmonised knower of Truth think seeing, hearing, touching, smelling, eating, going, sleeping, breathing.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||५-८||
naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||
BG 5.8
Audio
Translations & commentaries(4)
Sūtra — Translation
।।5.8।। तत्त्ववित् युक्त पुरुष यह सोचेगा (अर्थात् जानता है) कि "मैं किंचित् मात्र कर्म नहीं करता हूँ" देखता हुआ, सुनता हुआ, स्पर्श करता हुआ, सूंघता हुआ, खाता हुआ, चलता हुआ, सोता हुआ, श्वास लेता हुआ,।।
न चासौ परमार्थतः करोतीत्य् अतः - युक्तः समाहितः सन् मन्येत चिन्तयेत् । तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्व-वित् परमार्थ-दर्शीत्य् अर्थः । कदा कथं वा तत्त्वम् अवधारयन् मन्येत ? इत्य् उच्यते । मन्येतेति पूर्वेण संबन्धः । यस्यैवं तत्त्व-विदः सर्व-कार्य-करण-चेष्टासु कर्मस्व् अकर्मैव पश्यतः सम्यग्-दर्शिनस् तस्य सर्व-कर्म-संन्यास एवाधिकारः कर्मणो ऽभाव-दर्शनात् । न हि मृग-तृष्णिकायाम् उदक-बुद्ध्या पानाय प्रवृत्त उदकाभाव-ज्ञाने ऽपि तत्रैव पान-प्रयोजनाय प्रवर्तते
na cāsau paramārthataḥ karotīty ataḥ - yuktaḥ samāhitaḥ san manyeta cintayet | tattvavid ātmano yāthātmyaṃ tattvaṃ vettīti tattva-vit paramārtha-darśīty arthaḥ | kadā kathaṃ vā tattvam avadhārayan manyeta ? ity ucyate | manyeteti pūrveṇa saṃbandhaḥ | yasyaivaṃ tattva-vidaḥ sarva-kārya-karaṇa-ceṣṭāsu karmasv akarmaiva paśyataḥ samyag-darśinas tasya sarva-karma-saṃnyāsa evādhikāraḥ karmaṇo 'bhāva-darśanāt | na hi mṛga-tṛṣṇikāyām udaka-buddhyā pānāya pravṛtta udakābhāva-jñāne 'pi tatraiva pāna-prayojanāya pravartate