5.26 Absolute freedom (or Brahmic bliss) exists on all sides for those self-controlled ascetics who are free from desire and anger, who have controlled their thoughts and who have realised the Self.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||५-२६||
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||
BG 5.26
Audio
Translations & commentaries(4)
Sūtra — Translation
।।5.26।। काम और क्रोध से रहित, संयतचित्त वाले तथा आत्मा को जानने वाले यतियों के लिए सब ओर मोक्ष (या ब्रह्मानन्द) विद्यमान रहता है।।
किं च - काम-क्रोध-वियुक्तानां कामश् च क्रोधश् च काम-क्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यत-चेतसां संयतान्तः-करणानाम् अभित उभयतो जीवतां मृतानां च ब्रह्म-निर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मनां तेषां विदितात्मनां सम्यग्-दर्शिनाम् इत्य् अर्थः
kiṃ ca - kāma-krodha-viyuktānāṃ kāmaś ca krodhaś ca kāma-krodhau tābhyāṃ viyuktānāṃ yatīnāṃ saṃnyāsināṃ yata-cetasāṃ saṃyatāntaḥ-karaṇānām abhita ubhayato jīvatāṃ mṛtānāṃ ca brahma-nirvāṇaṃ mokṣo vartate viditātmanāṃ vidito jñāta ātmā yeṣāṃ te viditātmanāṃ teṣāṃ viditātmanāṃ samyag-darśinām ity arthaḥ