The wise see with equal vision a learned and humble brahmin, a cow, an elephant, a dog, and an outcaste.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥
vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ
BG 5.18
Audio
Translations & commentaries(3)
Sūtra — Translation
येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते पण्डिताः कथं तत्त्वं पयन्तीत्य् उच्यते - विद्या-विनय-संपन्ने विद्या च विनयश् च विद्या-विनयौ, विनय उपामः, ताभ्यां विद्या-विनयाभ्यां संपन्नो विद्या-विनय-संपन्नो विद्वान् विनीतश् च यो ब्राह्मणस् तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः । विद्या-विनय-संपन्ने उत्तम-संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कार-हीनायाम् अत्यन्तम् एव केवल-तामसे हस्त्य्-आदौ च, सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैस् तथा राजसैस् तथा तामसैश् च संस्कारैर् अत्यन्तम् एवास्पृष्टां समम् एकम् अविक्रियं तद् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः सम-दर्शिनः
yeṣāṃ jñānena nāśitam ātmano 'jñānaṃ te paṇḍitāḥ kathaṃ tattvaṃ payantīty ucyate - vidyā-vinaya-saṃpanne vidyā ca vinayaś ca vidyā-vinayau, vinaya upāmaḥ, tābhyāṃ vidyā-vinayābhyāṃ saṃpanno vidyā-vinaya-saṃpanno vidvān vinītaś ca yo brāhmaṇas tasmin brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ | vidyā-vinaya-saṃpanne uttama-saṃskāravati brāhmaṇe sāttvike, madhyamāyāṃ ca rājasyāṃ gavi, saṃskāra-hīnāyām atyantam eva kevala-tāmase hasty-ādau ca, sattvādi-guṇais taj-jaiś ca saṃskārais tathā rājasais tathā tāmasaiś ca saṃskārair atyantam evāspṛṣṭāṃ samam ekam avikriyaṃ tad brahma draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ sama-darśinaḥ