5.17 Their intellect absorbed in That, their self being That, established in That, with That for their supreme goal, they go whence there is no return, their sins dispelled by knowledge.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||५-१७||
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||
BG 5.17
Audio
Translations & commentaries(4)
Sūtra — Translation
।।5.17।। जिनकी बुद्धि उस (परमात्मा) में स्थित है, जिनका मन तद्रूप हुआ है, उसमें ही जिनकी निष्ठा है, वह (ब्रह्म) ही जिनका परम लक्ष्य है, ज्ञान के द्वारा पापरहित पुरुष अपुनरावृत्ति को प्राप्त होते हैं, अर्थात् उनका पुनर्जन्म नहीं होता है।।
यत् परं ज्ञानं प्रकाशितम् - तस्मिन् ब्रह्मणि गता बुद्धिर् येषां ते तद्-बुद्धयः, तद्-आत्मानस् तद् एव परं ब्रह्म आत्मा येषां ते तद्-आत्मनाः, तन्-निष्ठाः निष्ठा अभिनिवेशस् तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्य् एव अवस्थानं येषां ते तन्-निष्ठाः, तत्-परायणा च तद् एव परम् अयनं परा गतिर् येषां भवति ते तत्-परायणाः केवलात्म-रतय इत्य् अर्थः । येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते गच्छन्ति एवं-विद्याः अपुनर्-आवृत्तिम् अपुनर्-देह-संबन्धं ज्ञान-निर्धूत-कल्मषा यथोक्तेन ज्ञानेन निर्धूतो नाशितः कल्मषः पापादि-संसार-कारण-दोषो येषां ते ज्ञान-निर्धूत-कल्मषा यतयः इत्य् अर्थः
yat paraṃ jñānaṃ prakāśitam - tasmin brahmaṇi gatā buddhir yeṣāṃ te tad-buddhayaḥ, tad-ātmānas tad eva paraṃ brahma ātmā yeṣāṃ te tad-ātmanāḥ, tan-niṣṭhāḥ niṣṭhā abhiniveśas tātparyaṃ sarvāṇi karmāṇi saṃnyasya tasmin brahmaṇy eva avasthānaṃ yeṣāṃ te tan-niṣṭhāḥ, tat-parāyaṇā ca tad eva param ayanaṃ parā gatir yeṣāṃ bhavati te tat-parāyaṇāḥ kevalātma-rataya ity arthaḥ | yeṣāṃ jñānena nāśitam ātmano 'jñānaṃ te gacchanti evaṃ-vidyāḥ apunar-āvṛttim apunar-deha-saṃbandhaṃ jñāna-nirdhūta-kalmaṣā yathoktena jñānena nirdhūto nāśitaḥ kalmaṣaḥ pāpādi-saṃsāra-kāraṇa-doṣo yeṣāṃ te jñāna-nirdhūta-kalmaṣā yatayaḥ ity arthaḥ