5.15 The Lord takes neither the demerit nor even the merit of any; knowledge is enveloped by ignorance, thery beings are deluded.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||५-१५||
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||
BG 5.15
Audio
Translations & commentaries(4)
Sūtra — Translation
।।5.15।। विभु परमात्मा न किसी के पापकर्म को और न पुण्यकर्म को ही ग्रहण करता है; (किन्तु) अज्ञान से ज्ञान ढका हुआ है, इससे सब जीव मोहित होते हैं।।
परमार्थतस् तु - नादत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किम्-अर्थं तर्हि भक्तैः पूजादि-लक्षणं याग-दान-होमादिकं च सुकृतं प्रयुज्यते इत्य् आह - अज्ञानेनावृतं ज्ञानं विवेक-विज्ञानम्, तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्य् एवं मोहं गच्छन्त्य् अविवेकिनः संसारिणो जन्तवः
paramārthatas tu - nādatte na ca gṛhṇāti bhaktasyāpi kasyacit pāpam | na caivādatte sukṛtaṃ bhaktaiḥ prayuktaṃ vibhuḥ | kim-arthaṃ tarhi bhaktaiḥ pūjādi-lakṣaṇaṃ yāga-dāna-homādikaṃ ca sukṛtaṃ prayujyate ity āha - ajñānenāvṛtaṃ jñānaṃ viveka-vijñānam, tena muhyanti karomi kārayāmi bhokṣye bhojayāmīty evaṃ mohaṃ gacchanty avivekinaḥ saṃsāriṇo jantavaḥ