4.40 The ignorant the faithless, the doubting self goes to destruction; there is neither this world nor the other, nor happiness for the doubting.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ||४-४०||
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||
BG 4.40
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.40।। अज्ञानी तथा श्रद्धारहित और संशययुक्त पुरुष नष्ट हो जाता है, (उनमें भी) संशयी पुरुष के लिये न यह लोक है, न परलोक और न सुख।।
अत्र संशयो न कर्तव्यः, पापिष्ठो हि संशयः । कथम् इत्य् उच्यते --- अज्ञश् चानात्मज्ञश् चाश्रद्दधानश् च गुरु-वाक्य-शास्त्रेष्व् अविश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणो ऽपि लोको ऽस्ति । तथा न परो लोकः । न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशय-चित्तस्य । तस्मात् संशयो न कर्तव्यः
atra saṃśayo na kartavyaḥ, pāpiṣṭho hi saṃśayaḥ | katham ity ucyate --- ajñaś cānātmajñaś cāśraddadhānaś ca guru-vākya-śāstreṣv aviśvāsavāṃś ca saṃśayātmā ca saṃśaya-cittaś ca vinaśyati | ajñāśraddadhānau yadyapi vinaśyataḥ, na tathā yathā saṃśayātmā | saṃśayātmā tu pāpiṣṭhaḥ sarveṣām | katham ? nāyaṃ sādhāraṇo 'pi loko 'sti | tathā na paro lokaḥ | na sukham, tatrāpi saṃśayotpatteḥ saṃśayātmanaḥ saṃśaya-cittasya | tasmāt saṃśayo na kartavyaḥ