4.24 Brahman is the oblation; Brahman is the melted butter (ghee); by Brahman is the oblation poured into the fire of Brahman; Brahman verily shall be reached by him who always sees Brahman in action.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||४-२४||
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||
BG 4.24
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.24।। अर्पण (अर्थात् अर्पण करने का साधन श्रुवा) ब्रह्म है और हवि (शाकल्य अथवा हवन करने योग्य द्रव्य) भी ब्रह्म है; ब्रह्मरूप अग्नि में ब्रह्मरूप कर्ता के द्वारा जो हवन किया गया है, वह भी ब्रह्म ही है। इस प्रकार ब्रह्मरूप कर्म में समाधिस्थ पुरुष का गन्तव्य भी ब्रह्म ही है।।
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयत इत्य् उच्यते ? यतः - ब्रह्मार्पणं येन करणेन ब्रह्मविद् हविर् अग्नाव् अर्पयति । तद् ब्रह्मैवेति पश्यति तस्यात्म-व्यतिरेकेणाभावं पश्यति । यथा शुक्तिकायां रजताभावं पश्यति तद् उच्यते ब्रह्मैवार्पणम् इति । यथा यद् रजतं तच् छुक्तिकैवेति । ब्रह्म अर्पणम् इत्य् असमस्ते पदे यद्-अर्पण-बुद्ध्या गृह्यते लोके तद् अस्य ब्रह्म-विदो ब्रह्मैवेत्य् अर्थः । ब्रह्म हविस् तथा यद् धविर् बुद्ध्या गृह्यमाणं तद् ब्रह्मैवासय् । तथा ब्रह्माग्नौ इति समस्तं पदम् । अग्निर् अपि ब्रह्मैव । यत्र हूयते ब्रह्मणा कर्त्रा ब्रह्मैव कर्तेत्य् अर्थः । यत् तेन हुतं हवन-क्रिया तद् ब्रह्मैव । यत् तेन गन्तव्यं फलं तद् अपि ब्रह्मैव । ब्रह्म-कर्म-समाधिना ब्रह्मैव कर्म ब्रह्म-कर्म तस्मिन् समाधिर् यस्य स ब्रह्म-कर्म-समाधिस् तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम् । एवं लोक-सङ्ग्रहं चिकीर्षुणापि क्रियमाणं करम्, परमार्थतो ऽकर्म ब्रह्म-बुद्ध्य्-उपमृदित्वात् । एवं सति निवृत्त-कर्मणो ऽपि सर्व-कर्म-सन्न्यासिनः सम्यग्-दर्शन-स्तुत्य्-अर्थं यज्ञत्व-सम्पादनं ज्ञानस्य सुतराम् उपपद्यते । यद्-अर्पणाद्य्-अधियज्ञे प्रसिद्धं तद् अस्याध्यात्मं ब्रह्मैव परमार्थ-दर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । तस्माद् ब्रह्मैवेदं सर्वम् इत्य् अभिजानतो विदुषः सर्व-कर्माभावः । कारक-बुद्ध्य्-अभावाच् च । नहि कारक-बुद्धि-रहितं यज्ञाख्यं कर्म दृष्टम् । सर्वम् एवाग्नि-होत्रादिकं कर्म शब्द-समर्पित-देवता-विशेष-सम्प्रदानादि-कारक-बुद्धिमत्-कर्त्र्-अभिमान-फलाभिसन्धिमच् च दृष्टम् । नोपमृदित-क्रियाकारक-फल-भेद-बुद्धिमत् कर्तृत्वाभिमान-फलाभिसन्धि-रहितं वा । इदं तु ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धि कर्मातो ऽकर्मैव तत् । तथा च दर्शितं कर्मण्य् अकर्म यः पश्येत् [गीता ४।१८], कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः [गीता ४।२०], गुणा गुणेषु वर्तन्ते [गीता ३।२८], नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् [गीता ५।८] इत्य् आदिभिः । तथा च दर्शयंस् तत्र तत्र क्रिया-कारक-फल-भेद-बुद्ध्य्-उपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादि-हानिः । तथा मति-पूर्वकाम् अतिपूर्वकादीनां कर्मणां कार्य-विशेषस्यारम्भकत्वं दृष्टम् । तथेहापि ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धेर् बाह्य-चेष्टा-मात्रेण कर्मापि विदुषो ऽकर्म सम्पद्यते । अत उक्तं समग्रं प्रविलीयते [गीता ४।२३] इति । अत्र केचिद् आहुः - यद् ब्रह्म तद् अर्पणादीनि । ब्रह्मैव किलार्पणादिना पञ्च-विधेन कारकात्मना व्यवस्थितं सत् तद् एव कर्म करोति । तत्र नार्पणादि-बुद्धिर् निवर्त्यते । किन्त्व् अर्पणादिषु ब्रह्म-बुद्धिर् आधीयते । यथा प्रतिमादौ विष्ण्व्-आदि-बुद्धिः, यथा वा नामादौ ब्रह्म-बुद्धिर् इति । सत्यम् एवम् अपि स्याद् यदि ज्ञान-यज्ञ-स्तुत्य्-अर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्-दर्शनं ज्ञान-यज्ञ-शब्दितम् अनेकान् यज्ञ-शब्दितान् क्रिया-विशेषान् उपन्यस्य श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [गीता ४।३३] इति ज्ञानं स्तौति । अत्र च समर्थम् इदं वचनं ब्रह्मार्पणम् इत्य् आदि ज्ञानस्य यज्ञत्व-सम्पादने, अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । ये त्व् अर्पणादिषु प्रतिमायां विष्णु-दृष्टिवद् ब्रह्म-दृष्टिः क्षिप्यते । नामादिष्व् इव चेति ब्रुवते, न तेषां ब्रह्म-विद्योक्तेह विवक्षिता स्यात् । अर्पणादि-विषयत्वाज् ज्ञानस्य । न च दृष्टि-सम्पादन-ज्ञानेन मोक्ष-फलं प्राप्यते । ब्रह्मैव तेन गन्तव्यम् इति चोच्यते । विरुद्धं च सम्यग्-दर्शनम् अन्तरेण मोक्ष-फलं प्राप्यत इति । प्रकृति-विरोधश् च । सम्यग्-दर्शनं च प्रकृतं कर्मण्य् अकर्म यः पश्येत् [गीता ४।१८] इत्य् अत्रान्ते च सम्यग्-दर्शनं तस्यैवोपसंहारात् । श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [गीता ४।३३] ज्ञानं लब्ध्वा परां शान्तिं [गीता ४।३९] इत्य् आदिना सम्यग्-दर्शन-स्तुतिम् एव कुर्वन्न् उपक्षीणो ऽध्यायः । तत्राकस्माद् अर्पणादौ ब्रह्म-दृष्टिर् अप्रकरणे प्रतिमायाम् इव विष्णु-दृष्टिर् उच्यत इत्य् अनुपपन्नम् । तस्माद् यथा-व्याख्यातार्थ एवायं श्लोकः
kasmāt punaḥ kāraṇāt kriyamāṇaṃ karma svakāryārambham akurvat samagraṃ pravilīyata ity ucyate ? yataḥ - brahmārpaṇaṃ yena karaṇena brahmavid havir agnāv arpayati | tad brahmaiveti paśyati tasyātma-vyatirekeṇābhāvaṃ paśyati | yathā śuktikāyāṃ rajatābhāvaṃ paśyati tad ucyate brahmaivārpaṇam iti | yathā yad rajataṃ tac chuktikaiveti | brahma arpaṇam ity asamaste pade yad-arpaṇa-buddhyā gṛhyate loke tad asya brahma-vido brahmaivety arthaḥ | brahma havis tathā yad dhavir buddhyā gṛhyamāṇaṃ tad brahmaivāsay | tathā brahmāgnau iti samastaṃ padam | agnir api brahmaiva | yatra hūyate brahmaṇā kartrā brahmaiva kartety arthaḥ | yat tena hutaṃ havana-kriyā tad brahmaiva | yat tena gantavyaṃ phalaṃ tad api brahmaiva | brahma-karma-samādhinā brahmaiva karma brahma-karma tasmin samādhir yasya sa brahma-karma-samādhis tena brahma-karma-samādhinā brahmaiva gantavyam | evaṃ loka-saṅgrahaṃ cikīrṣuṇāpi kriyamāṇaṃ karam, paramārthato 'karma brahma-buddhy-upamṛditvāt | evaṃ sati nivṛtta-karmaṇo 'pi sarva-karma-sannyāsinaḥ samyag-darśana-stuty-arthaṃ yajñatva-sampādanaṃ jñānasya sutarām upapadyate | yad-arpaṇādy-adhiyajñe prasiddhaṃ tad asyādhyātmaṃ brahmaiva paramārtha-darśina iti | anyathā sarvasya brahmatve 'rpaṇādīnām eva viśeṣato brahmatvābhidhānam anarthakaṃ syāt | tasmād brahmaivedaṃ sarvam ity abhijānato viduṣaḥ sarva-karmābhāvaḥ | kāraka-buddhy-abhāvāc ca | nahi kāraka-buddhi-rahitaṃ yajñākhyaṃ karma dṛṣṭam | sarvam evāgni-hotrādikaṃ karma śabda-samarpita-devatā-viśeṣa-sampradānādi-kāraka-buddhimat-kartr-abhimāna-phalābhisandhimac ca dṛṣṭam | nopamṛdita-kriyākāraka-phala-bheda-buddhimat kartṛtvābhimāna-phalābhisandhi-rahitaṃ vā | idaṃ tu brahma-buddhy-upamṛditārpaṇādi-kāraka-kriyā-phala-bheda-buddhi karmāto 'karmaiva tat | tathā ca darśitaṃ karmaṇy akarma yaḥ paśyet [gītā 4.18], karmaṇy abhipravṛtto 'pi naiva kiṃcit karoti saḥ [gītā 4.20], guṇā guṇeṣu vartante [gītā 3.28], naiva kiṃcit karomīti yukto manyeta tattvavit [gītā 5.8] ity ādibhiḥ | tathā ca darśayaṃs tatra tatra kriyā-kāraka-phala-bheda-buddhy-upamardaṃ karoti | dṛṣṭā ca kāmyāgnihotrādau kāmopamardena kāmyāgnihotrādi-hāniḥ | tathā mati-pūrvakām atipūrvakādīnāṃ karmaṇāṃ kārya-viśeṣasyārambhakatvaṃ dṛṣṭam | tathehāpi brahma-buddhy-upamṛditārpaṇādi-kāraka-kriyā-phala-bheda-buddher bāhya-ceṣṭā-mātreṇa karmāpi viduṣo 'karma sampadyate | ata uktaṃ samagraṃ pravilīyate [gītā 4.23] iti | atra kecid āhuḥ - yad brahma tad arpaṇādīni | brahmaiva kilārpaṇādinā pañca-vidhena kārakātmanā vyavasthitaṃ sat tad eva karma karoti | tatra nārpaṇādi-buddhir nivartyate | kintv arpaṇādiṣu brahma-buddhir ādhīyate | yathā pratimādau viṣṇv-ādi-buddhiḥ, yathā vā nāmādau brahma-buddhir iti | satyam evam api syād yadi jñāna-yajña-stuty-arthaṃ prakaraṇaṃ na syāt | atra tu samyag-darśanaṃ jñāna-yajña-śabditam anekān yajña-śabditān kriyā-viśeṣān upanyasya śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa [gītā 4.33] iti jñānaṃ stauti | atra ca samartham idaṃ vacanaṃ brahmārpaṇam ity ādi jñānasya yajñatva-sampādane, anyathā sarvasya brahmatve 'rpaṇādīnām eva viśeṣato brahmatvābhidhānam anarthakaṃ syāt | ye tv arpaṇādiṣu pratimāyāṃ viṣṇu-dṛṣṭivad brahma-dṛṣṭiḥ kṣipyate | nāmādiṣv iva ceti bruvate, na teṣāṃ brahma-vidyokteha vivakṣitā syāt | arpaṇādi-viṣayatvāj jñānasya | na ca dṛṣṭi-sampādana-jñānena mokṣa-phalaṃ prāpyate | brahmaiva tena gantavyam iti cocyate | viruddhaṃ ca samyag-darśanam antareṇa mokṣa-phalaṃ prāpyata iti | prakṛti-virodhaś ca | samyag-darśanaṃ ca prakṛtaṃ karmaṇy akarma yaḥ paśyet [gītā 4.18] ity atrānte ca samyag-darśanaṃ tasyaivopasaṃhārāt | śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa [gītā 4.33] jñānaṃ labdhvā parāṃ śāntiṃ [gītā 4.39] ity ādinā samyag-darśana-stutim eva kurvann upakṣīṇo 'dhyāyaḥ | tatrākasmād arpaṇādau brahma-dṛṣṭir aprakaraṇe pratimāyām iva viṣṇu-dṛṣṭir ucyata ity anupapannam | tasmād yathā-vyākhyātārtha evāyaṃ ślokaḥ