4.19 He whose undertakings are all devoid of desires and (selfish) purposes and whose actions have been burnt by the fire of knowledge, him the wise call a sage.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||४-१९||
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||
BG 4.19
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.19।। जिसके समस्त कार्य कामना और संकल्प से रहित हैं, ऐसे उस ज्ञानरूप अग्नि के द्वारा भस्म हुये कर्मों वाले पुरुष को ज्ञानीजन पण्डित कहते हैं।।
तद् एतत् कर्मण्य् अकर्मादि-दर्शनं स्तूयते - यस्य यथोक्त-दर्शिनः सर्वे यावन्तः समारम्भाः कर्माणि समारभ्यन्त इति समारम्भाः । काम-संकल्प-वर्जिताः कामैस्तत्-कारणैश् च सङ्कल्प-वर्जिता मुधैव चेष्टा-मात्रा अनुष्ठीयन्ते । प्रवृत्तेन चेल् लोक-सङ्ग्रहार्थं, निवृत्तेन चेज् जीवन-मात्रार्थं, तं ज्ञानाग्नि-दग्ध-कर्माणं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं, तद् एवाग्निस् तेन ज्ञानाग्निना दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य । तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्म-विदः
tad etat karmaṇy akarmādi-darśanaṃ stūyate - yasya yathokta-darśinaḥ sarve yāvantaḥ samārambhāḥ karmāṇi samārabhyanta iti samārambhāḥ | kāma-saṃkalpa-varjitāḥ kāmaistat-kāraṇaiś ca saṅkalpa-varjitā mudhaiva ceṣṭā-mātrā anuṣṭhīyante | pravṛttena cel loka-saṅgrahārthaṃ, nivṛttena cej jīvana-mātrārthaṃ, taṃ jñānāgni-dagdha-karmāṇaṃ karmādāv akarmādi-darśanaṃ jñānaṃ, tad evāgnis tena jñānāgninā dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya | tam āhuḥ paramārthataḥ paṇḍitaṃ budhāḥ brahma-vidaḥ