4.18 He who seeth inaction in action and action in inaction, he is wise among men; he is a Yogi and performer of all actions.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः | स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||४-१८||
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||
BG 4.18
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.18।। जो पुरुष कर्म में अकर्म और अकर्म में कर्म देखता है, वह मनुष्यों में बुद्धिमान है, वह योगी सम्पूर्ण कर्मों को करने वाला है।।
किं पुनस् तत्त्वं कर्मादेर् यद् बोद्धव्यम् वक्ष्यामीति प्रतिज्ञातम् ? उच्यते -- कर्मणि । कर्म क्रियत इति कर्म व्यापार-मात्रं, तस्मिन् कर्मण्य् अकर्म कर्माभावं यः पश्येत् । अकर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योर् वस्त्व् अप्राप्यैव हि सर्व एव क्रियाकारकादि-व्यवहारो ऽविद्याभूमाव् एव कर्म यः पश्येत् पश्यति । स बुद्धिमान् मनुष्येषु, स युक्तो योगी च कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च स इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी । ननु किम् इदं विरुद्धम् उच्यते कर्मण्य् अकर्म यः पश्येद् इति । अकर्मणि च कर्म इति । न हि कर्माकर्म स्याद् अकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद् द्रष्टा ? न । अकर्मैव परमार्थतः सत्-कर्मवद् अवभासते मूढ-दृष्टेर् लोकस्य, तथा कर्मैवाकर्मवत् । तत्र यथाभूत-दर्शनार्थम् आह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अतो न विरुद्धम् बुद्धिमत्त्वाद्य्-उपपत्तेश् च । बोद्धव्यम् इति च यथाभूत-दर्शनम् उच्यते । न च विपरीत-ज्ञानाद् अशुभान् मोक्षणं स्यात् यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता ४।१६] इति चोक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस् तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनं कर्मण्य् अकर्म यः इत्य् आदि । न चात्र कर्माधिकरण-कर्मास्ति, कुण्डे बदराणीव । नाप्य् अकर्माधिकरणं कर्मास्ति कर्माभावत्वाद् अकर्मणः । अतो विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायाम् उदकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचिद् व्यभिचरति । तन् न नौ-स्थस्य नावि गच्छन्त्यां तटस्थेस्व् अगतिषु नगेषु प्रतिकूल-गति-दर्शनात् । दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनात् । एवम् इहाप्य् अकर्मण्य् अहं करोमीति कर्म-दर्शनं कर्मणि चाकर्म-दर्शनं विपरीत-दर्शनं येन, तन्-निराकरणार्थम् उच्यते कर्मण्य् अकर्म यः पश्येत् इत्य् आदि । तद् एतद् उक्त-प्रतिवचनम् अप्य् असकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः श्रुतम् अप्य् असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्यावतार्य चोदयतीति पुनः पुनर् उत्तरम् आह भगवान् । दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः । अव्यक्तो ऽयम् अचिन्त्यो ऽयं [गीता २।२५], न जायते म्रियते [गीता २।२७] इत्य् आदिनात्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्ध उक्तो वक्ष्यमाणश् च । तस्मिन्न् आत्मनि कर्माभावे ऽकर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम् । यतः किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः [गीता ४।१६] देहाद्य्-आश्रयं कर्मात्मन्य् अध्यारोप्य । अहं कर्ता ममैतत् कर्म, मयास्य कर्मणः फलं भोक्तव्यम् इति च । तथा अहं तूष्णीं भवामि, येनाहं निरायासो ऽकर्मा सुखी स्याम् इति कार्य-करणाश्रय-व्यापारोपरमं तत्-कृतं चसुखित्वम् आत्मन्य् अध्यारोप्य न करोमि किंचित् तूष्णीं सुखम् आसम् इत्य् अभिमन्यते लोकः । तत्रेदं लोकस्य विपरीत-दर्शनापनयनायाह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि । अत्र च कर्म कर्मैव सत् कार्य-करणाश्रयं कर्म-रहितो ऽविक्रिय आत्मनि सर्वैर् अध्यस्तम् । यतः पण्डितो ऽप्य् अहं करोमीति मन्यते । अथ आत्म-समवेततया सर्व-लोक-प्रसिद्धे कर्मणि नदी-कुल-स्थेष्व् इव गतिः प्रतिलौम्येन । अतो ऽकर्म कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु यः पश्येत् । अकर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मन्य् अध्यारोपिते तूष्णीम् अकुर्वन् सुखम् आसे इत्य् अहङ्काराभिसन्धि-हेतुत्वात् तस्मिन्न् अकर्मणि च कर्म यः पश्येत् । य एवं कर्माकर्म-विभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु । स युक्तो योगी कृत्स्न-कर्म-कृच् च । सो ऽशुभान् मोक्षितः कृत-कृत्यो भवतीत्य् अर्थः । अयं श्लोको ऽन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे ऽनुष्ठीयमानानां तत्-फलाभावाद् अकर्माणि तान्य् उच्यन्ते गौण्या वृत्त्या । तेषां चाकरणम् अकर्म । तच् च प्रत्यवाय-फलत्वात् कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मण्य् अकर्म यः पश्येत् फलाभावात् । यथा धेनुर् अपि गौर् अगौर् उच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् । तथा नित्याकरणे त्व् अकर्मणि कर्मः आश्येन् नरकादि-प्रत्यवाय-फलं प्रयच्छतीति । नैतद् युक्तं व्याख्यानम् । एवं-ज्ञानाद् अशुभान् मोक्षानुपपत्तेः । यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [गीता ४।१६] इति भगवतोक्तं वचनं बोध्येत । कथम् ? नित्यानाम् अनुष्ठानाद् अशुभात् स्यान् नाम मोक्षणम् । न तु तेषां फलाभाव-ज्ञानात् । न हि नित्यानां फलाभाव-ज्ञानम् अशुभ-मुक्ति-फलत्वेन चोदितं नित्य-कर्म-ज्ञानं वा । न च भगवतिवेहोक्तम् । एतेनाकर्मणि कर्म-दर्शनं प्रत्युक्तम् । न ह्य् अकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यता-मात्रम् । न चाकरणान् नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किंचित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि कर्माकर्मेति मिथा-दर्शनाद् अशुभान् मोक्षणम् । बुद्धिमत्त्वं, युक्तता, कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते स्तुतिर् वा । मिथ्या-ज्ञानम् एव हि साक्षाद् अशुभ-रूपं कुतो ऽन्यस्माद् अशुभान् मोक्षणम् ? न हि तमस् तमसो निवर्तकं भवति । ननु कर्मणि यद् अकर्म-दर्शनम् अकर्मणि वा कर्म-दर्शनं, न तन्-मिथ्या-ज्ञानम् । किं तर्हि गौणं फल-भावाभाव-निमित्तम् ? न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्याश्रवणात् । नापि श्रुत-हान्य-श्रुत-परिकल्पनया कश्चिद् विशेषो लभ्यते । स्व-शब्देनापि शक्यं वक्तुं नित्य-कर्मणां फलं नास्त्य् अकरणाच् च तेषां नरक-पातः स्याद् इति । तत्र व्याजेन पर-व्यामोह-रूपेण कर्मण्य् अकर्म यः पश्येद् इत्य् आदिना किम् ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोक-व्यामोहार्थम् इति व्यक्तं कल्पितं स्यात् । न चैतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनर् उच्यमानं सुबोधं स्याद् इत्य् एवं वक्तुं युक्तम् । कर्मण्य् एवाधिकारस् ते [गीता २।४७] इत्य् अत्र हि स्फुटतर उक्तो ऽर्थो न पुनर् वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यम् एव, न निष्प्रयोजनं बोद्धव्यम् इत्य् उच्यते । न च मिथ्या-ज्ञानं बोद्धव्यं भवति तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम् । नापि नित्यानाम् अकरणाद् अभावात् प्रयवाय-भावोत्पत्तिः । नासतो विद्यते भावो [गीता २।१६] इति वचनात् । तत्-कथम् असतः सज् जायते [छाउ ६।२।२] इति च दर्शितम् । असतः सज्-जन्म-प्रतिषेधाद् असतः सद्-उत्पत्तिं ब्रुवता ऽसद् एव सद् भवेत् । सच् चासद् भवेद् इत्य् उक्तं स्यात् । तच् चायुक्तं, सर्व-प्रमाण-विरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रं दुःख-स्वरूपत्वात् । दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः । तद्-अकरणे च नरक-पाताभ्युपगमे ऽनर्थायैव । उभयथापि करणे ऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्युपगम-विरोधश् च नित्यं निष्फलं कर्मेत्य् अभ्युपगम्य मोक्ष-फलायेति ब्रुवतः । तस्माद् यथा-श्रुत एवार्थः कर्मण्य् अकर्म य इत्य् आदेः । तथा च व्याख्यातो ऽस्माभिः श्लोकः
kiṃ punas tattvaṃ karmāder yad boddhavyam vakṣyāmīti pratijñātam ? ucyate -- karmaṇi | karma kriyata iti karma vyāpāra-mātraṃ, tasmin karmaṇy akarma karmābhāvaṃ yaḥ paśyet | akarmaṇi ca karmābhāve kartṛ-tantratvāt pravṛtti-nivṛttyor vastv aprāpyaiva hi sarva eva kriyākārakādi-vyavahāro 'vidyābhūmāv eva karma yaḥ paśyet paśyati | sa buddhimān manuṣyeṣu, sa yukto yogī ca kṛtsna-karma-kṛt samasta-karma-kṛc ca sa iti stūyate karmākarmaṇor itaretara-darśī | nanu kim idaṃ viruddham ucyate karmaṇy akarma yaḥ paśyed iti | akarmaṇi ca karma iti | na hi karmākarma syād akarma vā karma, tatra viruddhaṃ kathaṃ paśyed draṣṭā ? na | akarmaiva paramārthataḥ sat-karmavad avabhāsate mūḍha-dṛṣṭer lokasya, tathā karmaivākarmavat | tatra yathābhūta-darśanārtham āha bhagavān karmaṇy akarma yaḥ paśyed ity ādi | ato na viruddham buddhimattvādy-upapatteś ca | boddhavyam iti ca yathābhūta-darśanam ucyate | na ca viparīta-jñānād aśubhān mokṣaṇaṃ syāt yaj jñātvā mokṣyase 'śubhāt [gītā 4.16] iti coktam | tasmāt karmākarmaṇī viparyayeṇa gṛhīte prāṇibhis tad-viparyaya-grahaṇa-nivṛtty-arthaṃ bhagavato vacanaṃ karmaṇy akarma yaḥ ity ādi | na cātra karmādhikaraṇa-karmāsti, kuṇḍe badarāṇīva | nāpy akarmādhikaraṇaṃ karmāsti karmābhāvatvād akarmaṇaḥ | ato viparīta-gṛhīte eva karmākarmaṇī laukikaiḥ, yathā mṛgatṛṣṇikāyām udakaṃ śuktikāyāṃ vā rajatam | nanu karma karmaiva sarveṣāṃ na kvacid vyabhicarati | tan na nau-sthasya nāvi gacchantyāṃ taṭasthesv agatiṣu nageṣu pratikūla-gati-darśanāt | dūreṣu cakṣuṣāsannikṛṣṭeṣu gacchatsu gaty-abhāva-darśanāt | evam ihāpy akarmaṇy ahaṃ karomīti karma-darśanaṃ karmaṇi cākarma-darśanaṃ viparīta-darśanaṃ yena, tan-nirākaraṇārtham ucyate karmaṇy akarma yaḥ paśyet ity ādi | tad etad ukta-prativacanam apy asakṛd atyanta-viparīta-darśana-bhāvitatayā momuhyamāno lokaḥ śrutam apy asakṛt tattvaṃ vismṛtya vismṛtya mithyā-prasaṅgam avatāryāvatārya codayatīti punaḥ punar uttaram āha bhagavān | durvijñeyatvaṃ cālakṣya vastunaḥ | avyakto 'yam acintyo 'yaṃ [gītā 2.25], na jāyate mriyate [gītā 2.27] ity ādinātmani karmābhāvaḥ śruti-smṛti-nyāya-prasiddha ukto vakṣyamāṇaś ca | tasminn ātmani karmābhāve 'karmaṇi karma-viparīta-darśanam atyanta-nirūḍham | yataḥ kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ [gītā 4.16] dehādy-āśrayaṃ karmātmany adhyāropya | ahaṃ kartā mamaitat karma, mayāsya karmaṇaḥ phalaṃ bhoktavyam iti ca | tathā ahaṃ tūṣṇīṃ bhavāmi, yenāhaṃ nirāyāso 'karmā sukhī syām iti kārya-karaṇāśraya-vyāpāroparamaṃ tat-kṛtaṃ casukhitvam ātmany adhyāropya na karomi kiṃcit tūṣṇīṃ sukham āsam ity abhimanyate lokaḥ | tatredaṃ lokasya viparīta-darśanāpanayanāyāha bhagavān karmaṇy akarma yaḥ paśyed ity ādi | atra ca karma karmaiva sat kārya-karaṇāśrayaṃ karma-rahito 'vikriya ātmani sarvair adhyastam | yataḥ paṇḍito 'py ahaṃ karomīti manyate | atha ātma-samavetatayā sarva-loka-prasiddhe karmaṇi nadī-kula-stheṣv iva gatiḥ pratilaumyena | ato 'karma karmābhāvaṃ yathā-bhūtaṃ gaty-abhāvam iva vṛkṣeṣu yaḥ paśyet | akarmaṇi ca kārya-karaṇa-vyāpāroparame karmavad ātmany adhyāropite tūṣṇīm akurvan sukham āse ity ahaṅkārābhisandhi-hetutvāt tasminn akarmaṇi ca karma yaḥ paśyet | ya evaṃ karmākarma-vibhāgajñaḥ sa buddhimān paṇḍito manuṣyeṣu | sa yukto yogī kṛtsna-karma-kṛc ca | so 'śubhān mokṣitaḥ kṛta-kṛtyo bhavatīty arthaḥ | ayaṃ śloko 'nyathā vyākhyātaḥ kaiścit | katham ? nityānāṃ kila karmaṇām īśvarārthe 'nuṣṭhīyamānānāṃ tat-phalābhāvād akarmāṇi tāny ucyante gauṇyā vṛttyā | teṣāṃ cākaraṇam akarma | tac ca pratyavāya-phalatvāt karmocyate gauṇyaiva vṛttyā | tatra nitye karmaṇy akarma yaḥ paśyet phalābhāvāt | yathā dhenur api gaur agaur ucyate kṣīrākhyaṃ phalaṃ na prayacchatīti tadvat | tathā nityākaraṇe tv akarmaṇi karmaḥ āśyen narakādi-pratyavāya-phalaṃ prayacchatīti | naitad yuktaṃ vyākhyānam | evaṃ-jñānād aśubhān mokṣānupapatteḥ | yaj jñātvā mokṣyase 'śubhāt [gītā 4.16] iti bhagavatoktaṃ vacanaṃ bodhyeta | katham ? nityānām anuṣṭhānād aśubhāt syān nāma mokṣaṇam | na tu teṣāṃ phalābhāva-jñānāt | na hi nityānāṃ phalābhāva-jñānam aśubha-mukti-phalatvena coditaṃ nitya-karma-jñānaṃ vā | na ca bhagavativehoktam | etenākarmaṇi karma-darśanaṃ pratyuktam | na hy akarmaṇi karmeti darśanaṃ kartavyatayeha codyate, nityasya tu kartavyatā-mātram | na cākaraṇān nityasya pratyavāyo bhavatīti vijñānāt kiṃcit phalaṃ syāt | nāpi nityākaraṇaṃ jñeyatvena coditam | nāpi karmākarmeti mithā-darśanād aśubhān mokṣaṇam | buddhimattvaṃ, yuktatā, kṛtsna-karma-kṛttvādi ca phalam upapadyate stutir vā | mithyā-jñānam eva hi sākṣād aśubha-rūpaṃ kuto 'nyasmād aśubhān mokṣaṇam ? na hi tamas tamaso nivartakaṃ bhavati | nanu karmaṇi yad akarma-darśanam akarmaṇi vā karma-darśanaṃ, na tan-mithyā-jñānam | kiṃ tarhi gauṇaṃ phala-bhāvābhāva-nimittam ? na, karmākarma-vijñānād api gauṇāt phalasyāśravaṇāt | nāpi śruta-hānya-śruta-parikalpanayā kaścid viśeṣo labhyate | sva-śabdenāpi śakyaṃ vaktuṃ nitya-karmaṇāṃ phalaṃ nāsty akaraṇāc ca teṣāṃ naraka-pātaḥ syād iti | tatra vyājena para-vyāmoha-rūpeṇa karmaṇy akarma yaḥ paśyed ity ādinā kim ? tatraiva vyācakṣāṇena bhagavatoktaṃ vākyaṃ loka-vyāmohārtham iti vyaktaṃ kalpitaṃ syāt | na caitac chadma-rūpeṇa vākyena rakṣaṇīyaṃ vastu, nāpi śabdāntareṇa punaḥ punar ucyamānaṃ subodhaṃ syād ity evaṃ vaktuṃ yuktam | karmaṇy evādhikāras te [gītā 2.47] ity atra hi sphuṭatara ukto 'rtho na punar vaktavyo bhavati | sarvatra ca praśastaṃ boddhavyaṃ ca kartavyam eva, na niṣprayojanaṃ boddhavyam ity ucyate | na ca mithyā-jñānaṃ boddhavyaṃ bhavati tat-pratyupasthāpitaṃ vā vastv-ābhāsam | nāpi nityānām akaraṇād abhāvāt prayavāya-bhāvotpattiḥ | nāsato vidyate bhāvo [gītā 2.16] iti vacanāt | tat-katham asataḥ saj jāyate [chāu 6.2.2] iti ca darśitam | asataḥ saj-janma-pratiṣedhād asataḥ sad-utpattiṃ bruvatā 'sad eva sad bhavet | sac cāsad bhaved ity uktaṃ syāt | tac cāyuktaṃ, sarva-pramāṇa-virodhāt | na ca niṣphalaṃ vidadhyāt karma śāstraṃ duḥkha-svarūpatvāt | duḥkhasya ca buddhi-pūrvakatayā kāryatvānupapatteḥ | tad-akaraṇe ca naraka-pātābhyupagame 'narthāyaiva | ubhayathāpi karaṇe 'karaṇe ca śāstraṃ niṣphalaṃ kalpitaṃ syāt | svābhyupagama-virodhaś ca nityaṃ niṣphalaṃ karmety abhyupagamya mokṣa-phalāyeti bruvataḥ | tasmād yathā-śruta evārthaḥ karmaṇy akarma ya ity ādeḥ | tathā ca vyākhyāto 'smābhiḥ ślokaḥ