4.17 For verily (the true nature) of action (enjoined by the scriptures) should be known, also (that) of forbidden (or unlawful) action, and of inaction; hard to understand is the nature (path) of action.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ||४-१७||
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||
BG 4.17
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.17।। कर्म का (स्वरूप) जानना चाहिये और विकर्म का (स्वरूप) भी जानना चाहिये ; (बोद्धव्यम्) तथा अकर्म का भी (स्वरूप) जानना चाहिये (क्योंकि) कर्म की गति गहन है।।
न चैतत् त्वया मन्तव्यं, कर्म नाम देहादि-चेष्टा लोक-प्रसिद्धं, अकर्म नाम तद्-अक्रिया तूष्णीम् आसनम् । किं तत्र बोद्धव्यम् ? इति । कस्मात् ? उच्यते - कर्मणः शास्त्र-विहितस्य हि यस्माद् अप्य् अस्ति बोद्धव्यम् । बोद्धव्यम् चास्त्य् एव विकर्मणः प्रतिषिद्धस्य । तथाकर्मणश् च तूष्णीम्भावस्य बोद्धव्यम् अस्तीति त्रिष्व् अप्य् अध्याहारः कर्तव्यः । यस्माद् गहना विषमा दुर्ज्ञाना कर्मण इत्य् उपलक्षणार्थं कर्मादीनां कर्माकर्म-विकर्मणां गतिर् याथात्म्यं तत्त्वम् इत्य् अर्थः
na caitat tvayā mantavyaṃ, karma nāma dehādi-ceṣṭā loka-prasiddhaṃ, akarma nāma tad-akriyā tūṣṇīm āsanam | kiṃ tatra boddhavyam ? iti | kasmāt ? ucyate - karmaṇaḥ śāstra-vihitasya hi yasmād apy asti boddhavyam | boddhavyam cāsty eva vikarmaṇaḥ pratiṣiddhasya | tathākarmaṇaś ca tūṣṇīmbhāvasya boddhavyam astīti triṣv apy adhyāhāraḥ kartavyaḥ | yasmād gahanā viṣamā durjñānā karmaṇa ity upalakṣaṇārthaṃ karmādīnāṃ karmākarma-vikarmaṇāṃ gatir yāthātmyaṃ tattvam ity arthaḥ