4.14 Actions do not taint Me, nor have I a desire for the fruit of actions. He who knows Me thus is not bound by actions.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||४-१४||
na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||
BG 4.14
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.14।। कर्म मुझे लिप्त नहीं करते; न मुझे कर्मफल में स्पृहा है। इस प्रकार मुझे जो जानता है, वह भी कर्मों से नहीं बन्धता है।।
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस् तेषाम् अकर्तैवाहम् । यतो - न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेनाहङ्काराभावात् । न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् अहं कर्तेत्य् आभिमानः कर्मसु स्पृहा तत्-फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम् । तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्ये ऽपि माम् आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्म-फले स्पृहेति न कर्मभिर् न बध्यते । तस्यापि न देहाद्य्-आरम्भकानि कर्माणि भवन्तीत्य् अर्थः
yeṣāṃ tu karmaṇāṃ kartāraṃ māṃ manyase paramārthatas teṣām akartaivāham | yato - na māṃ tāni karmāṇi limpanti dehādy-ārambhakatvenāhaṅkārābhāvāt | na ca teṣāṃ karmaṇāṃ phale me mama spṛhā tṛṣṇā | yeṣāṃ tu saṃsāriṇām ahaṃ kartety ābhimānaḥ karmasu spṛhā tat-phaleṣu ca tān karmāṇi limpantīti yuktam | tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo 'nye 'pi mām ātmatvenābhijānāti nāhaṃ kartā na me karma-phale spṛheti na karmabhir na badhyate | tasyāpi na dehādy-ārambhakāni karmāṇi bhavantīty arthaḥ