4.13 The fourfold caste has been created by Me according to the differentiation of Guna and Karma; though I am the author thereof know Me as non-doer and immutable.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||४-१३||
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||
BG 4.13
Audio
Translations & commentaries(4)
Sūtra — Translation
।।4.13।। गुण और कर्मों के विभाग से चातुर्वण्य मेरे द्वारा रचा गया है। यद्यपि मैं उसका कर्ता हूँ, तथापि तुम मुझे अकर्ता और अविनाशी जानो।।
मानुष एव लोके वर्णाश्रमादि-कर्माधिकारः । नान्येषु लोकेष्व् इति नियमः किं-निमित्तः ? इति । अथवा वर्णाश्रमादि-प्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश [गीता ४।११] इत्य् उक्तं कस्मात् पुनः कारणान् नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्य किम् ? उच्यते - चातुर्वर्ण्यं चत्वार एव वर्णाश् चातुर्वर्ण्यं मयेश्वरेण सृष्टम् उत्पादितं ब्राह्मणो ऽस्य मुखम् आसीत् [ऋक् ८।४।१९।२, यजुः ३२।११] इत्य् आदि श्रुतेः । गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । गुणाः सत्त्व-रजस्-तमांसि । तत्र सात्त्विकस्य सत्त्व-प्रधानस्य ब्राह्मणस्य शमो दमस् तपः [गीता १८।४२] इत्य् आदीनि कर्माणि । सत्त्वोप-सर्जन-रजः-प्रधानस्य क्षत्रियस्य शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधानस्य वैश्यस्य कृष्य्-आदीनि कर्माणि । रज-उपसर्जन-तमः-प्रधानस्य शूद्रस्य शुश्रूषैव कर्म । इत्य् एवं गुण-कर्म-विभागशश् चातुर्गुण्यं मया सृष्टम् इत्य् अर्थः । तच् चेदं चातुर्वर्ण्यं नान्येषु लोकेषु । अतो मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्य-सर्गादेः कर्मणः कर्तृत्वात् तत्-फलेन युज्यसे ऽतो न त्वं नित्य-मुक्तो नित्येश्वरश् चेति । उच्यते - यद्यपि माया-संव्यवहारेण तस्य कर्मणः कर्तारम् अपि सन्तं मां परमार्थतो विद्ध्य् अकर्तारं, अतएवाव्ययम् असंसारिणं च मां विद्धि
mānuṣa eva loke varṇāśramādi-karmādhikāraḥ | nānyeṣu lokeṣv iti niyamaḥ kiṃ-nimittaḥ ? iti | athavā varṇāśramādi-pravibhāgopetā manuṣyā mama vartmānuvartante sarvaśa [gītā 4.11] ity uktaṃ kasmāt punaḥ kāraṇān niyamena tavaiva vartmānuvartante, nānyasya kim ? ucyate - cāturvarṇyaṃ catvāra eva varṇāś cāturvarṇyaṃ mayeśvareṇa sṛṣṭam utpāditaṃ brāhmaṇo 'sya mukham āsīt [ṛk 8.4.19.2, yajuḥ 32.11] ity ādi śruteḥ | guṇa-karma-vibhāgaśo guṇa-vibhāgaśaḥ karma-vibhāgaśaś ca | guṇāḥ sattva-rajas-tamāṃsi | tatra sāttvikasya sattva-pradhānasya brāhmaṇasya śamo damas tapaḥ [gītā 18.42] ity ādīni karmāṇi | sattvopa-sarjana-rajaḥ-pradhānasya kṣatriyasya śaurya-tejaḥ-prabhṛtīni karmāṇi | tama-upasarjana-rajaḥ-pradhānasya vaiśyasya kṛṣy-ādīni karmāṇi | raja-upasarjana-tamaḥ-pradhānasya śūdrasya śuśrūṣaiva karma | ity evaṃ guṇa-karma-vibhāgaśaś cāturguṇyaṃ mayā sṛṣṭam ity arthaḥ | tac cedaṃ cāturvarṇyaṃ nānyeṣu lokeṣu | ato mānuṣe loke iti viśeṣaṇam | hanta tarhi cāturvarṇya-sargādeḥ karmaṇaḥ kartṛtvāt tat-phalena yujyase 'to na tvaṃ nitya-mukto nityeśvaraś ceti | ucyate - yadyapi māyā-saṃvyavahāreṇa tasya karmaṇaḥ kartāram api santaṃ māṃ paramārthato viddhy akartāraṃ, ataevāvyayam asaṃsāriṇaṃ ca māṃ viddhi