3.8 Do thou perform (thy) bounden duty, for action is superior to inaction and even the maintenance of the body would not be possible for thee by inaction.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ||३-८||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||
BG 3.8
Audio
Translations & commentaries(4)
Sūtra — Translation
।।3.8।। तुम (अपने) नियत (कर्तव्य) कर्म करो क्योंकि अकर्म से श्रेष्ठ कर्म है। तुम्हारे अकर्म होने से (तुम्हारा) शरीर निर्वाह भी नहीं सिद्ध होगा।।
यतः एवम् अतः- नियतं नित्यं शास्त्रोपदिष्टम् । यो यस्मिन् कर्मण्य् अधिकृतः फलाय चाश्रुतं तन् नियतं कर्म, तत् कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायो ऽधिकतरं फलतः । हि यस्माद् अकर्मणो ऽकरणात् अनारम्भात् । कथम् ? शरीर-यात्रा शरीर-स्थितिर् अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणो ऽकरणात् । अतो दृष्टः कर्माकर्मणोर् विशेषो लोके
yataḥ evam ataḥ- niyataṃ nityaṃ śāstropadiṣṭam | yo yasmin karmaṇy adhikṛtaḥ phalāya cāśrutaṃ tan niyataṃ karma, tat kuru tvaṃ he arjuna ! yataḥ karma jyāyo 'dhikataraṃ phalataḥ | hi yasmād akarmaṇo 'karaṇāt anārambhāt | katham ? śarīra-yātrā śarīra-sthitir api ca te tava na prasidhyet prasiddhiṃ na gacchet akarmaṇo 'karaṇāt | ato dṛṣṭaḥ karmākarmaṇor viśeṣo loke