3.4 Not by non-performance of actions does man reach actionlessness; nor by mere renunciation does he attain to perfection.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति ||३-४||
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||
BG 3.4
Audio
Translations & commentaries(4)
Sūtra — Translation
।।3.4।। कर्मों के न करने से मनुष्य नैर्ष्कम्य को प्राप्त नहीं होता और न कर्मों के संन्यास से ही वह सिद्धि (पूर्णत्व) प्राप्त करता है।।
मां च बन्ध-कारणे कर्मण्य् एव नियोजयसि इति विषण्ण-मनसम् अर्जुनम् कर्म नारभे इत्य् एवं मन्वानम् आलक्ष्य आह भगवान् - न कर्मणामन् आरम्भाद् इति । अथवा - ज्ञान-कर्म-निष्ठयोः परस्पर-विरोधाद् एकेन पुरुषेण युगपद् अनुष्ठातुम् अशक्यत्वे सति इतरेतरानपेक्षयोर् एव पुरुषार्थ-हेतुत्वे प्राप्ते कर्म-निष्ठाया ज्ञान-निष्ठा-प्राप्ति-हेतुत्वेन पुरुषार्थ-हेतुत्वम्, न स्वातन्त्र्येण । ज्ञान-निष्ठा तु कर्म-निष्ठोपाय-लब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थ-हेतुः अन्यानपेक्षा, इत्य् एतम् अर्थं प्रदर्शयिष्यन् आह भगवान् - न कर्मणा क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्त-दुरित-क्षय-हेतुत्वेन सत्त्व-शुद्धि-कारणानां तत्-कारणत्वेन च ज्ञानोत्पत्ति-द्वारेण ज्ञान-निष्ठा-हेतूनाम्, ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः । यथादर्शतल-प्रख्ये पश्यत्य् आत्मानम् आत्मनि ॥ [म्भ् १२ २०८।८] इत्य् आदि स्मरणात् । अनारम्भाद् अननुष्ठानात् नैष्कर्म्यं निष्कर्म-भावं कर्म-शून्यतां ज्ञान-योगेन निष्ठां निष्क्रियात्म-स्वरूपेणैवावस्थानम् इति यावत् । पुरुषो नाश्नुते न प्राप्नोतीत्य् अर्थः । कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुत इति वचनात् तद्-विपर्ययात् तेषाम् आरम्भान् नैष्कर्म्यम् अश्नुत इति गम्यते । कस्मात् पुनः कारणात् कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् । न ह्य् उपायम् अन्तरेण उपेय-प्राप्तिर् अस्ति । कर्म-योगोपायत्वं च नैष्कर्म्य-लक्षणस्य ज्ञान-योगस्य, श्रुतौ इह च प्रतिपादनात् । श्रुतौ तावत् प्रकृतस्यात्म-लोकस्य वेद्यस्य वेदनोपायत्वेन तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन [बौ ४।४।२२] इत्य् आदिना कर्म-योगस्य ज्ञान-योगोपायत्वं प्रतिपादितम् । इहापि च - संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः [क्रईता ५।६], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [क्रईता ५।११], यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् [क्रईता १८।५] इत्य् आदि प्रतिपादयिष्यति । ननु चाभयं सर्व-भूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् इत्य् आदौ कर्तव्य-कर्म-संन्यासाद् अपि नैष्कर्म्य-प्राप्तिं दर्शयति । लोके च कर्मणाम् अनारम्भान् नैष्कर्म्यम् इति प्रसिद्धतरम् । अतश् च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह- न च संन्यसनाद् एवेति । नापि संन्यसनाद् एव केवलात् कर्म-परित्याग-मात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां ज्ञान-योगेन निष्ठां समधिगच्छति न प्राप्नोति
māṃ ca bandha-kāraṇe karmaṇy eva niyojayasi iti viṣaṇṇa-manasam arjunam karma nārabhe ity evaṃ manvānam ālakṣya āha bhagavān - na karmaṇāman ārambhād iti | athavā - jñāna-karma-niṣṭhayoḥ paraspara-virodhād ekena puruṣeṇa yugapad anuṣṭhātum aśakyatve sati itaretarānapekṣayor eva puruṣārtha-hetutve prāpte karma-niṣṭhāyā jñāna-niṣṭhā-prāpti-hetutvena puruṣārtha-hetutvam, na svātantryeṇa | jñāna-niṣṭhā tu karma-niṣṭhopāya-labdhātmikā satī svātantryeṇa puruṣārtha-hetuḥ anyānapekṣā, ity etam arthaṃ pradarśayiṣyan āha bhagavān - na karmaṇā kriyāṇāṃ yajñādīnām iha janmani janmāntare vā anuṣṭhitānām upātta-durita-kṣaya-hetutvena sattva-śuddhi-kāraṇānāṃ tat-kāraṇatvena ca jñānotpatti-dvāreṇa jñāna-niṣṭhā-hetūnām, jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ | yathādarśatala-prakhye paśyaty ātmānam ātmani || [mbh 12 208.8] ity ādi smaraṇāt | anārambhād ananuṣṭhānāt naiṣkarmyaṃ niṣkarma-bhāvaṃ karma-śūnyatāṃ jñāna-yogena niṣṭhāṃ niṣkriyātma-svarūpeṇaivāvasthānam iti yāvat | puruṣo nāśnute na prāpnotīty arthaḥ | karmaṇām anārambhān naiṣkarmyaṃ nāśnuta iti vacanāt tad-viparyayāt teṣām ārambhān naiṣkarmyam aśnuta iti gamyate | kasmāt punaḥ kāraṇāt karmaṇām anārambhān naiṣkarmyaṃ nāśnute iti ? ucyate, karmārambhasyaiva naiṣkarmyopāyatvāt | na hy upāyam antareṇa upeya-prāptir asti | karma-yogopāyatvaṃ ca naiṣkarmya-lakṣaṇasya jñāna-yogasya, śrutau iha ca pratipādanāt | śrutau tāvat prakṛtasyātma-lokasya vedyasya vedanopāyatvena tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena [bau 4.4.22] ity ādinā karma-yogasya jñāna-yogopāyatvaṃ pratipāditam | ihāpi ca - saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ [kraītā 5.6], yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye [kraītā 5.11], yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām [kraītā 18.5] ity ādi pratipādayiṣyati | nanu cābhayaṃ sarva-bhūtebhyo dattvā naiṣkarmyam ācaret ity ādau kartavya-karma-saṃnyāsād api naiṣkarmya-prāptiṃ darśayati | loke ca karmaṇām anārambhān naiṣkarmyam iti prasiddhataram | ataś ca naiṣkarmyārthinaḥ kiṃ karmārambheṇa ? iti prāptam | ata āha- na ca saṃnyasanād eveti | nāpi saṃnyasanād eva kevalāt karma-parityāga-mātrād eva jñāna-rahitāt siddhiṃ naiṣkarmya-lakṣaṇāṃ jñāna-yogena niṣṭhāṃ samadhigacchati na prāpnoti