Sant Seva ParishadSant Seva ParishadSSP · sant seva

Bhagavad Gita

श्रीमद्भगवद्गीता

मूल श्लोकः

अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव ||३-१||

arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||

BG 3.1

Audio
Translations & commentaries(4)
Show:

Sūtra Translation

SūtraSwami Sivananda· EN

3.1 Arjuna said If Thou thinkest that knowledge is superior to action, O Krishna, why then, O Kesava, dost Thou ask me to engage in this terrible action?

SūtraSwami Tejomayananda· HI

।।3.1।। हे जनार्दन यदि आपको यह मान्य है कि कर्म से ज्ञान श्रेष्ठ है तो फिर हे केशव आप मुझे इस भयंकर कर्म में क्यों प्रवृत्त करते हैं

SūtraShankaracharya· SA

शास्त्रस्य प्रवृत्ति-निवृत्ति-विषय-भूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिर् योगे बुद्धिर् इति च । तत्र प्रजहाति यदा कामान् इत्य् आरभ्य आ अध्याय-परिसमाप्तेः साङ्ख्य-बुद्ध्य्-आश्रितानां संन्यासं कर्तव्यम् उक्त्वा तेषां तन्-निष्ठतयैव च कृतार्थता उक्ता एषा ब्राह्मी स्थितिः इति । अर्जुनाय च कर्मण्य् एवाधिकारस् ते, मा सङ्गो ऽस्त्व् अकर्मणि इति कर्म एव कर्तव्यम् उक्तवान् योग-बुद्धिम् आश्रित्य, न तत एव श्रेयः-प्राप्तिम् उक्तवान् । तद् एतद् आलक्ष्य पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच - कथं भक्ताय श्रेयो ऽर्थिने यत् साक्षात् श्रेयः-साधनं साङ्ख्य-बुद्धि-निष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थ-युक्ते पारम्पर्येणापि अनैकान्तिक-श्रेयः-प्राप्ति-फले नियुञ्ज्याद् इति युक्तः पर्याकुलीभावो ऽर्जुनस्य । तद्-अनुरूप-प्रश्नः ज्यायसी चेत् इत्य् आदिः । प्रश्नापाकरण-वाक्यं च भगवता उक्तं यथोक्त-विभाग-विषये शास्त्रे । केचित् तु अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्-प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति । यथा च आत्मना सम्बन्ध-ग्रन्थे गीतार्थो निरूपितस् तत्-प्रतिकूलं चेह पुनः प्रश्न-प्रतिवचनयोर् अर्थं निरूपयन्ति । कथं ? तत्र सम्बन्ध-ग्रन्थे तावत् सर्वेषाम् आश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निरूपितो ऽर्थ इत्य् उक्तम् । पुनः विशेषितं च यावज्-जीव-श्रुति-चोदितानि कर्माणि परित्यज्य केवलाद् एव ज्ञानान् मोक्षः प्राप्यत इत्य् एतद् एकान्तेनैव प्रतिषिद्धम् इति । इह त्व् आश्रम-विकल्पं दर्शयता यावज्-जीव-श्रुति-चोदितानाम् एव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयाद् भगवान्, श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत् । तत्रैतत् स्याद् गृहस्थानाम् एव श्रौत-कर्म-परित्यागेन केवलाद् एव ज्ञानान् मोक्षः प्रतिषिध्यते न त्व् आश्रमान्तराणाम् इति । एतद् अपि पूर्वोत्तर्-विरुद्धम् एव । कथं, सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निश्चितो ऽर्थ इति प्रतिज्ञाय इह कथं तद्-विरुद्धं केवलाद् एव ज्ञानान् मोक्षं ब्रूयाद् आश्रमान्तराणाम् । अथ मतं श्रौत-कर्मापेक्षयैतद्-वचनं केवलाद् एव ज्ञानात् श्रौत-कर्म-रहिताद् गृहस्थानां मोक्षः प्रतिषिध्यते इति । तत्र गृहस्थानां विद्यमानम् अपि स्मार्तं कर्माविद्यमानवद् उपेक्ष्य ज्ञानाद् एव केवलान् न मोक्ष इत्य् उच्यत इति । एतद् अपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्त-कर्मणा समुच्चिताद् ज्ञानान् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम् । किं च, यदि मोक्ष-साधनत्वेन स्मार्तानि कर्माणि ऊर्ध्व-रेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैर् एव समुच्चयो न श्रौतैः । अथ श्रौतैः स्मार्तैश् च गृहस्थस्यैव समुच्चयो मोक्षाय ऊर्ध्व-रेतसां तु स्मार्त-कर्म-मात्र-समुच्चिताज् ज्ञानान् मोक्ष इति । तत्रैवं सति गृहस्थस्यायास-बाहुल्यं श्रौतं स्मार्तं च बहु-दुःख-रूपं कर्म शिरसि अरोपितं स्यात् । अथ गृहस्थस्यैवायास-बाहुल्य-कारणान् मोक्षः स्यान् नाश्रमान्तराणां श्रौत-नित्य-कर्म-रहितत्वाद् इति । तद् अप्य् असत् । सर्वोपनिषत्सु इतिहास-पुराण-योग-शास्त्रे च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व-कर्म-संन्यास-विधानाद् आश्रम-विकल्प-समुच्चय-विधानाच् च श्रुति-स्मृत्योः । सिद्धस् तर्हि सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयः ? न, मुमुक्षोः सर्व-कर्म-संन्यास-विधानात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [बौ ३।५।१], तस्मात् संन्यासम् एषां तपसाम् अतिरिक्तम् आहुः [नाउ २।७९], न्यास एवात्यरेचयेत् [नाउ २।७८], इति । न कर्मणा न प्रजया धनेन त्यागेनैके ऽमृतत्वम् आनशुः [नाउ २।१२] इति च । ब्रह्मचर्याद् एव प्रव्रजेत् [जावाउ ४] इत्य् आद्याः श्रुतयः । त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ॥ संसारम् एव निःसारं दृष्ट्वा सार-दिदृक्षया । प्रव्रजन्त्य् अकृतोद्वाहाः परं वैराग्यम् आश्रिताः ॥ इति बृहस्पतिर् अपि कचं प्रति । कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः ॥ [म्भ् १२।२४१।७] इति शुकानुशासनम् । इहापि सर्व-कर्माणि मनसा संन्यस्य इत्य् आदि । मोक्षस्य चाकार्यत्वान् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवाय-परिहारार्थम् अनुष्ठेयानि इति चेत्, न । असंन्यासि-विषयत्वात् प्रत्यवाय-प्राप्तेः । न हि अग्निकार्याद्य्-अकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणाम् असंन्यासिनाम् अपि कर्मिणाम् । न तवन् नित्यानां कर्मणाम् अभावाद् एव भाव-रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या कथम् असतः सज्जायते [छाउ ६।२।२] इति असतः सज्जन्मासम्भव-श्रुतेः । यदि विहिताकरणाद् असम्भाव्यम् अपि प्रत्यवायं ब्रूयाद् वेदस् तदा अनर्थ-करो वेदः अप्रमाणम् इत्य् उक्तं स्यात् । विहितस्य करणाकरणयोः दुःख-मात्र-फलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इति अनुपपन्नार्थं कल्पितं स्यात् । न चैतद् इष्टम् । तस्मान् न संन्यासिनां कर्माणि अतो ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् इति । अर्जुनस्य प्रश्नानुपपत्तेश् च । यदि हि भगवता द्वितीये अध्याये ज्ञानं कर्म च समुच्चयेन त्वयानुष्ठेयम् इत्य् उक्तं स्यात् ततो ऽर्जुनस्य प्रश्नो ऽनुपपन्नो ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन इति । अर्जुनाय चेद् बुद्धि-कर्मणी त्वयानुष्ठेये इति उक्ते या कर्मणो ज्यायसी बुद्धिः सा अप्य् उक्ता एवेति तत् किं कर्मणि घोरे मां नियोजयसि केशव इति प्रश्नो न कथंचन उपपद्यते । न चार्जुनस्यैव ज्यायसी बुद्धिर् नानुष्ठेयेति भगवतोक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन ज्यायसी चेद् इति प्रश्नः स्यात् । यदि पुनर् एकस्य पुरुषस्य ज्ञान-कर्मणोर् विरोधाद् युगपद् अनुष्ठानं न सम्भवतीति भिन्न-पुरुषानुष्ठेयत्वं भगवता पूर्वम् उक्तं स्यात् ततो ऽयं प्रश्न उपपन्नः ज्यायसी चेद् इत्य् आदिः । अविवेकतः प्रश्न-कल्पनायाम् अपि भिन्न-पुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते । न चाज्ञान-निमित्तं भगवत्-प्रतिवचनं कल्प्यम् । अस्माच् च भिन्न-पुरुषानुष्ठेयत्वेन ज्ञान-कर्म-निष्ठयोर् भगवतः प्रतिवचन-दर्शनात्, ज्ञान-कर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलाद् एव ज्ञानान् मोक्ष इत्य् एषो ऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च । ज्ञान-कर्मणोर् एकं वद निश्चित्य इति च एक-विषयैव प्रार्थनानुपपन्नोभयोः समुच्चय-सम्भवे । कुरु कर्मैव तस्मात् त्वम् इति च ज्ञान-निष्ठा-सम्भवम् अर्जुनस्यावधारणेन दर्शयिष्यति । ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर् ज्ञानम् । हे जनार्दन ! यदि बुद्धि-कर्मणी समुच्चिते इष्टे तदैकं श्रेयः-साधनम् इति कर्मणो ज्यायसी बुद्धिर् इति कर्मणो ऽतिरिक्त-करणं बुद्धेर् अनुपपन्नम् अर्जुनेन कृतं स्यात् । न हि तद् एव तस्मात् फलतो ऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः । अश्रेयस्करं च कर्म कुर्व् इति मां प्रतिपादयति, तत् किं नु कारणम् इति भगवत उपालम्भम् इव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसा-लक्षणे मां नियोजयसि केशव इति च यद् आह, तच् च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तो ऽर्जुनेन चावधारित चेत्, तत् किं कर्मणि घोरे मां नियोजयसि इत्य् आदि कथं युक्तं वचनम्

SūtraShankaracharya· SA-ROMAN

śāstrasya pravṛtti-nivṛtti-viṣaya-bhūte dve buddhī bhagavatā nirdiṣṭe, sāṅkhye buddhir yoge buddhir iti ca | tatra prajahāti yadā kāmān ity ārabhya ā adhyāya-parisamāpteḥ sāṅkhya-buddhy-āśritānāṃ saṃnyāsaṃ kartavyam uktvā teṣāṃ tan-niṣṭhatayaiva ca kṛtārthatā uktā eṣā brāhmī sthitiḥ iti | arjunāya ca karmaṇy evādhikāras te, mā saṅgo 'stv akarmaṇi iti karma eva kartavyam uktavān yoga-buddhim āśritya, na tata eva śreyaḥ-prāptim uktavān | tad etad ālakṣya paryākulībhūta-buddhir arjuna uvāca - kathaṃ bhaktāya śreyo 'rthine yat sākṣāt śreyaḥ-sādhanaṃ sāṅkhya-buddhi-niṣṭhāṃ śrāvayitvā māṃ karmaṇi dṛṣṭānekānartha-yukte pāramparyeṇāpi anaikāntika-śreyaḥ-prāpti-phale niyuñjyād iti yuktaḥ paryākulībhāvo 'rjunasya | tad-anurūpa-praśnaḥ jyāyasī cet ity ādiḥ | praśnāpākaraṇa-vākyaṃ ca bhagavatā uktaṃ yathokta-vibhāga-viṣaye śāstre | kecit tu arjunasya praśnārtham anyathā kalpayitvā tat-pratikūlaṃ bhagavataḥ prativacanaṃ varṇayanti | yathā ca ātmanā sambandha-granthe gītārtho nirūpitas tat-pratikūlaṃ ceha punaḥ praśna-prativacanayor arthaṃ nirūpayanti | kathaṃ ? tatra sambandha-granthe tāvat sarveṣām āśramiṇāṃ jñāna-karmaṇoḥ samuccayo gītā-śāstre nirūpito 'rtha ity uktam | punaḥ viśeṣitaṃ ca yāvaj-jīva-śruti-coditāni karmāṇi parityajya kevalād eva jñānān mokṣaḥ prāpyata ity etad ekāntenaiva pratiṣiddham iti | iha tv āśrama-vikalpaṃ darśayatā yāvaj-jīva-śruti-coditānām eva karmaṇāṃ parityāga uktaḥ | tat katham īdṛśaṃ viruddham artham arjunāya brūyād bhagavān, śrotā vā kathaṃ viruddham artham avadhārayet | tatraitat syād gṛhasthānām eva śrauta-karma-parityāgena kevalād eva jñānān mokṣaḥ pratiṣidhyate na tv āśramāntarāṇām iti | etad api pūrvottar-viruddham eva | kathaṃ, sarvāśramiṇāṃ jñāna-karmaṇoḥ samuccayo gītā-śāstre niścito 'rtha iti pratijñāya iha kathaṃ tad-viruddhaṃ kevalād eva jñānān mokṣaṃ brūyād āśramāntarāṇām | atha mataṃ śrauta-karmāpekṣayaitad-vacanaṃ kevalād eva jñānāt śrauta-karma-rahitād gṛhasthānāṃ mokṣaḥ pratiṣidhyate iti | tatra gṛhasthānāṃ vidyamānam api smārtaṃ karmāvidyamānavad upekṣya jñānād eva kevalān na mokṣa ity ucyata iti | etad api viruddham | katham ? gṛhasthasyaiva smārta-karmaṇā samuccitād jñānān mokṣaḥ pratiṣidhyate na tu āśramāntarāṇām iti kathaṃ vivekibhiḥ śakyam avadhārayitum | kiṃ ca, yadi mokṣa-sādhanatvena smārtāni karmāṇi ūrdhva-retasāṃ samuccīyante tathā gṛhasthasyāpi iṣyatāṃ smārtair eva samuccayo na śrautaiḥ | atha śrautaiḥ smārtaiś ca gṛhasthasyaiva samuccayo mokṣāya ūrdhva-retasāṃ tu smārta-karma-mātra-samuccitāj jñānān mokṣa iti | tatraivaṃ sati gṛhasthasyāyāsa-bāhulyaṃ śrautaṃ smārtaṃ ca bahu-duḥkha-rūpaṃ karma śirasi aropitaṃ syāt | atha gṛhasthasyaivāyāsa-bāhulya-kāraṇān mokṣaḥ syān nāśramāntarāṇāṃ śrauta-nitya-karma-rahitatvād iti | tad apy asat | sarvopaniṣatsu itihāsa-purāṇa-yoga-śāstre ca jñānāṅgatvena mumukṣoḥ sarva-karma-saṃnyāsa-vidhānād āśrama-vikalpa-samuccaya-vidhānāc ca śruti-smṛtyoḥ | siddhas tarhi sarvāśramiṇāṃ jñāna-karmaṇoḥ samuccayaḥ ? na, mumukṣoḥ sarva-karma-saṃnyāsa-vidhānāt | vyutthāyātha bhikṣācaryaṃ caranti [bau 3.5.1], tasmāt saṃnyāsam eṣāṃ tapasām atiriktam āhuḥ [nāu 2.79], nyāsa evātyarecayet [nāu 2.78], iti | na karmaṇā na prajayā dhanena tyāgenaike 'mṛtatvam ānaśuḥ [nāu 2.12] iti ca | brahmacaryād eva pravrajet [jāvāu 4] ity ādyāḥ śrutayaḥ | tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja | ubhe satyānṛte tyaktvā yena tyajasi tat tyaja || saṃsāram eva niḥsāraṃ dṛṣṭvā sāra-didṛkṣayā | pravrajanty akṛtodvāhāḥ paraṃ vairāgyam āśritāḥ || iti bṛhaspatir api kacaṃ prati | karmaṇā badhyate jantur vidyayā ca vimucyate | tasmāt karma na kurvanti yatayaḥ pāra-darśinaḥ || [mbh 12.241.7] iti śukānuśāsanam | ihāpi sarva-karmāṇi manasā saṃnyasya ity ādi | mokṣasya cākāryatvān mumukṣoḥ karmānarthakyam | nityāni pratyavāya-parihārārtham anuṣṭheyāni iti cet, na | asaṃnyāsi-viṣayatvāt pratyavāya-prāpteḥ | na hi agnikāryādy-akaraṇāt saṃnyāsinaḥ pratyavāyaḥ kalpayituṃ śakyo yathā brahmacāriṇām asaṃnyāsinām api karmiṇām | na tavan nityānāṃ karmaṇām abhāvād eva bhāva-rūpasya pratyavāyasya utpattiḥ kalpayituṃ śakyā katham asataḥ sajjāyate [chāu 6.2.2] iti asataḥ sajjanmāsambhava-śruteḥ | yadi vihitākaraṇād asambhāvyam api pratyavāyaṃ brūyād vedas tadā anartha-karo vedaḥ apramāṇam ity uktaṃ syāt | vihitasya karaṇākaraṇayoḥ duḥkha-mātra-phalatvāt | tathā ca kārakaṃ śāstraṃ na jñāpakam iti anupapannārthaṃ kalpitaṃ syāt | na caitad iṣṭam | tasmān na saṃnyāsināṃ karmāṇi ato jñāna-karmaṇoḥ samuccayānupapattiḥ | jyāyasī cet karmaṇas te matā buddhir iti | arjunasya praśnānupapatteś ca | yadi hi bhagavatā dvitīye adhyāye jñānaṃ karma ca samuccayena tvayānuṣṭheyam ity uktaṃ syāt tato 'rjunasya praśno 'nupapanno jyāyasī cet karmaṇas te matā buddhir janārdana iti | arjunāya ced buddhi-karmaṇī tvayānuṣṭheye iti ukte yā karmaṇo jyāyasī buddhiḥ sā apy uktā eveti tat kiṃ karmaṇi ghore māṃ niyojayasi keśava iti praśno na kathaṃcana upapadyate | na cārjunasyaiva jyāyasī buddhir nānuṣṭheyeti bhagavatoktaṃ pūrvam iti kalpayituṃ yuktam, yena jyāyasī ced iti praśnaḥ syāt | yadi punar ekasya puruṣasya jñāna-karmaṇor virodhād yugapad anuṣṭhānaṃ na sambhavatīti bhinna-puruṣānuṣṭheyatvaṃ bhagavatā pūrvam uktaṃ syāt tato 'yaṃ praśna upapannaḥ jyāyasī ced ity ādiḥ | avivekataḥ praśna-kalpanāyām api bhinna-puruṣānuṣṭheyatvena bhagavataḥ prativacanaṃ nopapadyate | na cājñāna-nimittaṃ bhagavat-prativacanaṃ kalpyam | asmāc ca bhinna-puruṣānuṣṭheyatvena jñāna-karma-niṣṭhayor bhagavataḥ prativacana-darśanāt, jñāna-karmaṇoḥ samuccayānupapattiḥ | tasmāt kevalād eva jñānān mokṣa ity eṣo 'rtho niścito gītāsu sarvopaniṣatsu ca | jñāna-karmaṇor ekaṃ vada niścitya iti ca eka-viṣayaiva prārthanānupapannobhayoḥ samuccaya-sambhave | kuru karmaiva tasmāt tvam iti ca jñāna-niṣṭhā-sambhavam arjunasyāvadhāraṇena darśayiṣyati | jyāyasī śreyasī cet yadi karmaṇaḥ sakāśāt te tava matā abhipretā buddhir jñānam | he janārdana ! yadi buddhi-karmaṇī samuccite iṣṭe tadaikaṃ śreyaḥ-sādhanam iti karmaṇo jyāyasī buddhir iti karmaṇo 'tirikta-karaṇaṃ buddher anupapannam arjunena kṛtaṃ syāt | na hi tad eva tasmāt phalato 'tiriktaṃ syāt | tathā ca, karmaṇaḥ śreyaskarī bhagavatoktā buddhiḥ | aśreyaskaraṃ ca karma kurv iti māṃ pratipādayati, tat kiṃ nu kāraṇam iti bhagavata upālambham iva kurvan tat kiṃ kasmāt karmaṇi ghore krūre hiṃsā-lakṣaṇe māṃ niyojayasi keśava iti ca yad āha, tac ca nopapadyate | atha smārtenaiva karmaṇā samuccayaḥ sarveṣāṃ bhagavatokto 'rjunena cāvadhārita cet, tat kiṃ karmaṇi ghore māṃ niyojayasi ity ādi kathaṃ yuktaṃ vacanam