2.8 I do not see that it would remove this sorrow that burns up my senses, even if I should attain prosperous and unrivalled dominion on earth or lordship over the gods.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ||२-८||
na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||
BG 2.8
Audio
Translations & commentaries(4)
Sūtra — Translation
।।2.8।। पृथ्वी पर निष्कण्टक समृद्ध राज्य को और देवताओं के स्वामित्व को प्राप्त होकर भी मैं उस उपाय को नहीं देखता हूँ, जो मेरी इन्द्रियों को सुखाने वाले इस शोक को दूर कर सके।।
[अयम् अध्यायप्रारम्भभाष्यः — श्रीशङ्कराचार्यः उत्तरश्लोकेषु (२.११+) विशेषभाष्यम् आरभते; श्लोकानां २.१–२.१० कृते सामान्यः प्रास्ताविकः भाष्यः] अत्र च दृष्ट्वा तु पाण्डवानीकम् इत्य् आरभ्य यावत् न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह इत्य् एतद्-अन्तः प्राणिनां शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः । तथा हि -- अर्जुनेन राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-संबन्धि-बान्धवेषु अहम् एतेषाम् ममैते इत्य् एवं भ्रान्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ आत्मनः शोक-मोहौ प्रदर्शितौ । कथं भीष्मम् अहं संख्ये इत्य् आदिना । शोक-मोहाभ्यां ह्य् अभिभूत-विवेक-विज्ञानः स्वत एव क्षत्र-धर्मे युद्धे प्रवृत्तो ऽपि तस्माद् युद्धाद् उपरराम । पर-धर्मं च भिक्षा-जीवनादिकं कर्तुं प्रववृते । तथा च सर्व-प्राणिनां शोक-मोहादि-दोषाविष्ट-चेतसां स्वभावत एव स्वधर्म-परित्यागः प्रतिषिद्ध-सेवा च स्यात् । स्व-धर्मे प्रवृत्तानाम् अपि तेषां वाङ्-मनः-कायादीनां प्रवृत्तिः फलाभिसंधि-पूर्विकैव साहंकारा च भवति । तत्रैवं सति धर्माधर्मोपचयाद् इष्टानिष्ट-जन्म-सुख-दुःखादि-प्राप्ति-लक्षणः संसारो ऽनुपरतो भवति । इत्य् अतः संसार-बीज-भूतौ शोक-मोहौ । तयोश् च सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञानात् नान्यतो निवृत्तिर् इति तद्-उपदिदिक्षुः सर्व-लोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान् वासुदेवः--- अशोच्यान् इत्यादि । अत्र केचिद् आहुः-सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-मात्राद् एव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादि-श्रौत-स्मार्त-कर्म-सहितात् ज्ञानात् कैवल्य-प्राप्तिर् इति सर्वासु गीतासु निश्चितो ऽर्थ इति । ज्ञापकं चाहुर् अस्यार्थस्य -- अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि [गीता २।३३] कर्मण्य् एवाधिकारस् ते [गीता २।४७], कुरु कर्मैव तस्मात् त्वम् [गीता ४।१५] इत्य् आदि । हिंसादि-युक्तत्वात् वैदिकं कर्म अधर्माय इतीयम् अप्य् आशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्ध-लक्षणं गुरु-भ्रातृ-पुत्रादि-हिंसा-लक्षणम् अत्यन्तं क्रूरम् अपि स्व-धर्म इति कृत्वा नाधर्माय । तद्-अकरणे च ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि [गीता २।३३] इति ब्रुवता यावज् जीवादि-श्रुति-चोदितानां पश्व्-आदि-हिंसा-लक्षणानां च कर्मणां प्राग् एव नाधर्मत्वम् इति सुनिश्चितम् उक्तं भवति -- इति । तद् असत् । ज्ञान-कर्म-निष्ठयोर् विभाग-वचनाद् बुद्धि-द्वयाश्रययोः । अशोच्यान् इत्य् आदिना भगवता यावत् स्वधर्मम् अपि चावेक्ष्य इत्य् एतद्-अन्तेन ग्रन्थेन यत्-परमार्थात्म-तत्त्व-निरूपणं कृतम्, तत् सांख्यम् । तद्-विषया बुद्धिर् आत्मनो जन्मादि-षड्-विक्रियाभावाद् अकर्ता आत्मेति प्रकरणार्थ-निरूपणाद् या जायते, सा सांख्य-बुद्धिः । सा येषां ज्ञानिनाम् उचिता भवति, ते सांख्याः । एतस्या बुद्धेर् जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्म-विवेक-पूर्वको मोक्ष-साधनानुष्ठान-लक्षणो योगः । तद्-विषया बुद्धिः योग-बुद्धिः । सा येषां कर्मिणाम् उचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु इति । तयोश् च सांख्य-बुद्ध्य्-आश्रयां ज्ञान-योगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति । तथा च योग-बुद्ध्य्-आश्रयां कर्म-योगेन निष्ठां विभक्तां वक्ष्यति - कर्म-योगेन योगिनाम् इति । एवं सांख्य-बुद्धिं योग-बुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञान-कर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्व-बुद्ध्य्-आश्रययोः युगपद्-एक-पुरुषाश्रयत्वासंभवं पश्यता । यथा एतद्-विभाग-वचनम् तथैव दर्शितं शातपथीये ब्राह्मणे - एतम् एव प्रव्राजिनो लोकम् इच्छन्तो ब्राह्मणाः प्रव्रजन्ति [बौ ४।४।२२] इति सर्व-कर्म-संन्यासं विधाय तच्-छेषेण किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोकः [बौ ४।४।२२] इति । तत्रैव च प्राग् दार-परिग्रहात् पुरुष आत्मो प्राकृतो धर्म-जिज्ञासोत्तर-कालं लोक-त्रय-साधनम् । पुत्रं, द्वि-प्रकारं च वित्तं मानुषं द्वि-प्रकारं च । तत्र मानुषं कर्म-रूपं पितृ-लोक-प्राप्ति-साधनं विद्यां च दैवं वित्तं देव-लोक-प्राप्ति-साधनम् । सो ऽकामयत [बौ १।४।१७] इति अविद्या-कामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यो व्युत्थाय, प्रव्रजन्ति [बौ ४।४।२२] इति व्युत्थानम् आत्मानम् एव लोकम् इच्छतो ऽकामस्य विहितम् । तद् एतद् विभाग-वचनम् अनुपपन्नं स्याद् यदि श्रौत-कर्म-ज्ञानयोः समुच्चयो ऽभिप्रेतः स्याद् भगवतः । न चार्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत् कर्मणस् ते [गीता ३।१] इत्य् आदिः । एक-पुरुषानुष्ठेयत्वासंभवं बुद्धि-कर्मणोः भगवता पूर्वम् अनुक्तं कथम् अर्जुनो ऽश्रुतं बुद्धा च कर्मणो ज्यायस्त्वं भगवत्य् अध्यारोपयेन् मृषैव ज्यायसी चेत् कर्मणस् ते मता बुद्धिः इति । किं च -- यदि बुद्धि-कर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, यच् छ्राय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् इति कथम् उभयोर् उपदेशे सति अन्यतर-विषय एव प्रश्नः स्यात् ? न हि पित्त-प्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्य् उपदिष्टे तयोर् अन्यतरत्-पित्त-प्रशमन-कारणं ब्रूहि इति प्रश्नः संभवति । अथार्जुनस्य भगवद्-उक्त-वचनार्थ-विवेकानवधारण-निमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् -- मया बुद्धि-कर्मणोः समुच्चय उक्तः किम् अर्थम् इत्थं त्वं भ्रान्तो ऽसि -- इति । न तु पुनः प्रतिवचनम् अननुरूपं पृष्टाद् अन्यद् एव द्वे निष्ठा मया पुरा प्रोक्ता इति वक्तुं युक्तम् । नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभाग-वचनादि सर्वम् उपपननम् । किं च -- क्षत्रियस्य युद्धं स्मार्तं कर्म स्व-धर्म इति जानतः तत् किं कर्मणि घोरो मां नियोजयसि इत्य् उपालम्भो ऽनुपपन्नः । तस्माद् गीता-शास्त्रे ईषन्-मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्म-ज्ञानस्य समुच्चयो न केनचिद् दर्शयितुं शक्यः । यस्य त्व् अज्ञानात् रागादि-दोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्ध-सत्त्वस्य ज्ञानम् उत्पन्नं परमार्थ-तत्त्व-विषयम् एकम् एवेदं सर्वं ब्रह्म अकर्तृ च इति, तस्य कर्मणि कर्म-प्रयोजने च निवृत्ते ऽपि लोक-संग्रहार्थं यत्न-पूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत् प्रवृत्ति-रूपं दृश्यते न तत् कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतो वासुदेवस्य क्षत्र-धर्म-चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थ-सिद्धये, तद्वत् तत्-फलाभिसंध्य्-अहंकाराभावस्य तुल्यत्वाद् विदुषः । तत्त्वविन् नाहं करोमीति मन्यते, न च तत्-फलम् अभिसन्धत्ते । यथा च स्वर्गादि-कामार्थिनो ऽग्निहोत्रादि-कर्म-लक्षण-धर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टा ऽपि कामे तद् एव अग्निहोत्राद्य्-अनुतिष्ठतो ऽपि न तत्-काम्यम् अग्निहोत्रादि भवति । तथा च दर्शयति भगवान् - कुर्वन्न् अपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र ॥ यच् च पूर्वैः पूर्वतरं कृतम् कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः इति, तत् तु प्रविभज्य विज्ञेयम् । तत् कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्व-विदो ऽपि प्रवृत्त-कर्माणः स्युः, ते लोक-संग्रहार्थम् गुणा गुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिम् आस्थिताः, कर्म-संन्यासे प्राप्ते ऽपि कर्मणा सहैव संसिद्धिम् आस्थिताः, न कर्म-संन्यासं कृतवन्त इत्य् अर्थः । अथ न ते तत्त्व-विदः । ईश्वर-समर्पितेन कर्मणा साधन-भूतेन संसिद्धिं सत्त्व-शुद्धिम्, ज्ञानोत्पत्ति-लक्षणां वा संसिद्धिम्, आस्थिता जनकादय इति व्याख्येयम् । एतम् एवार्थं वक्ष्यति भगवान् सत्त्व-शुद्धये कर्म कुर्वन्ति इति । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः इत्य् उक्त्वा सिद्धिं प्राप्तस्य पुनर्-ज्ञान-निष्ठां वक्ष्यति -- सिद्धिं प्राप्तो यथा ब्रह्म इत्य् आदिना ॥ तस्माद् गीता-शास्त्रे केवलाद् एव तत्त्व-ज्ञानान् मोक्ष-प्राप्तिः न कर्म-समुच्चितात् इति निश्चितो ऽर्थः । यथा चायम् अर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥ तत्रैव धर्म-संमूढ-चेतसो मिथ्या-ज्ञानवतो महति शोक-सागरे निमग्नस्य अर्जुनस्य अन्यत्रात्म-ज्ञानाद् उद्धरणम् अपश्यन् भगवान् वासुदेवः ततः कृपया अर्जुनम् उद्दिधारयिषुः आत्म-ज्ञानायावतारयन्न् आह - श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः
[ayam adhyāya-prārambha-bhāṣyaḥ — Śaṅkarācāryaḥ uttara-ślokeṣu (2.11+) viśeṣa-bhāṣyaṃ ārabhate; ślokānāṃ 2.1-2.10 kṛte sāmānyaḥ prāstāvika-bhāṣyaḥ] atra ca dṛṣṭvā tu pāṇḍavānīkam ity ārabhya yāvat na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha ity etad-antaḥ prāṇināṃ śoka-mohādi-saṃsāra-bīja-bhūta-doṣodbhava-kāraṇa-pradarśanārthatvena vyākhyeyo granthaḥ | tathā hi -- arjunena rājya-guru-putra-mitra-suhṛt-svajana-saṃbandhi-bāndhaveṣu aham eteṣām mamaite ity evaṃ bhrānti-pratyaya-nimitta-sneha-vicchedādi-nimittau ātmanaḥ śoka-mohau pradarśitau | kathaṃ bhīṣmam ahaṃ saṃkhye ity ādinā | śoka-mohābhyāṃ hy abhibhūta-viveka-vijñānaḥ svata eva kṣatra-dharme yuddhe pravṛtto 'pi tasmād yuddhād upararāma | para-dharmaṃ ca bhikṣā-jīvanādikaṃ kartuṃ pravavṛte | tathā ca sarva-prāṇināṃ śoka-mohādi-doṣāviṣṭa-cetasāṃ svabhāvata eva svadharma-parityāgaḥ pratiṣiddha-sevā ca syāt | sva-dharme pravṛttānām api teṣāṃ vāṅ-manaḥ-kāyādīnāṃ pravṛttiḥ phalābhisaṃdhi-pūrvikaiva sāhaṃkārā ca bhavati | tatraivaṃ sati dharmādharmopacayād iṣṭāniṣṭa-janma-sukha-duḥkhādi-prāpti-lakṣaṇaḥ saṃsāro 'nuparato bhavati | ity ataḥ saṃsāra-bīja-bhūtau śoka-mohau | tayoś ca sarva-karma-saṃnyāsa-pūrvakād ātma-jñānāt nānyato nivṛttir iti tad-upadidikṣuḥ sarva-lokānugrahārtham arjunaṃ nimittīkṛtya āha bhagavān vāsudevaḥ--- aśocyān ityādi | atra kecid āhuḥ-sarva-karma-saṃnyāsa-pūrvakād ātma-jñāna-niṣṭhā-mātrād eva kevalāt kaivalyaṃ na prāpyata eva | kiṃ tarhi ? agnihotrādi-śrauta-smārta-karma-sahitāt jñānāt kaivalya-prāptir iti sarvāsu gītāsu niścito 'rtha iti | jñāpakaṃ cāhur asyārthasya -- atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi [gītā 2.33] karmaṇy evādhikāras te [gītā 2.47], kuru karmaiva tasmāt tvam [gītā 4.15] ity ādi | hiṃsādi-yuktatvāt vaidikaṃ karma adharmāya itīyam apy āśaṅkā na kāryā | katham ? kṣātraṃ karma yuddha-lakṣaṇaṃ guru-bhrātṛ-putrādi-hiṃsā-lakṣaṇam atyantaṃ krūram api sva-dharma iti kṛtvā nādharmāya | tad-akaraṇe ca tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi [gītā 2.33] iti bruvatā yāvaj jīvādi-śruti-coditānāṃ paśv-ādi-hiṃsā-lakṣaṇānāṃ ca karmaṇāṃ prāg eva nādharmatvam iti suniścitam uktaṃ bhavati -- iti | tad asat | jñāna-karma-niṣṭhayor vibhāga-vacanād buddhi-dvayāśrayayoḥ | aśocyān ity ādinā bhagavatā yāvat svadharmam api cāvekṣya ity etad-antena granthena yat-paramārthātma-tattva-nirūpaṇaṃ kṛtam, tat sāṃkhyam | tad-viṣayā buddhir ātmano janmādi-ṣaḍ-vikriyābhāvād akartā ātmeti prakaraṇārtha-nirūpaṇād yā jāyate, sā sāṃkhya-buddhiḥ | sā yeṣāṃ jñāninām ucitā bhavati, te sāṃkhyāḥ | etasyā buddher janmanaḥ prāk ātmano dehādivyatiriktatvakartṛtvabhoktṛtvabhoktṛtvādyapekṣo dharmādharma-viveka-pūrvako mokṣa-sādhanānuṣṭhāna-lakṣaṇo yogaḥ | tad-viṣayā buddhiḥ yoga-buddhiḥ | sā yeṣāṃ karmiṇām ucitā bhavati te yoginaḥ | tathā ca bhagavatā vibhakte dve buddhī nirdiṣṭe eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu iti | tayoś ca sāṃkhya-buddhy-āśrayāṃ jñāna-yogena niṣṭhāṃ sāṃkhyānāṃ vibhaktāṃ vakṣyati purā vedātmanā mayā proktā iti | tathā ca yoga-buddhy-āśrayāṃ karma-yogena niṣṭhāṃ vibhaktāṃ vakṣyati - karma-yogena yoginām iti | evaṃ sāṃkhya-buddhiṃ yoga-buddhiṃ ca āśritya dve niṣṭhe vibhakte bhagavataiva ukte jñāna-karmaṇoḥ kartṛtvākartṛtvaikatvānekatva-buddhy-āśrayayoḥ yugapad-eka-puruṣāśrayatvāsaṃbhavaṃ paśyatā | yathā etad-vibhāga-vacanam tathaiva darśitaṃ śātapathīye brāhmaṇe - etam eva pravrājino lokam icchanto brāhmaṇāḥ pravrajanti [bau 4.4.22] iti sarva-karma-saṃnyāsaṃ vidhāya tac-cheṣeṇa kiṃ prajayā kariṣyāmo yeṣāṃ no 'yam ātmāyaṃ lokaḥ [bau 4.4.22] iti | tatraiva ca prāg dāra-parigrahāt puruṣa ātmo prākṛto dharma-jijñāsottara-kālaṃ loka-traya-sādhanam | putraṃ, dvi-prakāraṃ ca vittaṃ mānuṣaṃ dvi-prakāraṃ ca | tatra mānuṣaṃ karma-rūpaṃ pitṛ-loka-prāpti-sādhanaṃ vidyāṃ ca daivaṃ vittaṃ deva-loka-prāpti-sādhanam | so 'kāmayata [bau 1.4.17] iti avidyā-kāmavata eva sarvāṇi karmāṇi śrautādīni darśitāni | tebhyo vyutthāya, pravrajanti [bau 4.4.22] iti vyutthānam ātmānam eva lokam icchato 'kāmasya vihitam | tad etad vibhāga-vacanam anupapannaṃ syād yadi śrauta-karma-jñānayoḥ samuccayo 'bhipretaḥ syād bhagavataḥ | na cārjunasya praśna upapanno bhavati jyāyasī cet karmaṇas te [gītā 3.1] ity ādiḥ | eka-puruṣānuṣṭheyatvāsaṃbhavaṃ buddhi-karmaṇoḥ bhagavatā pūrvam anuktaṃ katham arjuno 'śrutaṃ buddhā ca karmaṇo jyāyastvaṃ bhagavaty adhyāropayen mṛṣaiva jyāyasī cet karmaṇas te matā buddhiḥ iti | kiṃ ca -- yadi buddhi-karmaṇoḥ sarveṣāṃ samuccaya uktaḥ syāt arjunasyāpi sa ukta eveti, yac chrāya etayor ekaṃ tan me brūhi suniścitam iti katham ubhayor upadeśe sati anyatara-viṣaya eva praśnaḥ syāt ? na hi pitta-praśamanārthinaḥ vaidyena madhuraṃ śītalaṃ ca bhoktavyam ity upadiṣṭe tayor anyatarat-pitta-praśamana-kāraṇaṃ brūhi iti praśnaḥ saṃbhavati | athārjunasya bhagavad-ukta-vacanārtha-vivekānavadhāraṇa-nimittaḥ praśnaḥ kalpyeta, tathāpi bhagavatā praśnānurūpaṃ prativacanaṃ deyam -- mayā buddhi-karmaṇoḥ samuccaya uktaḥ kim artham itthaṃ tvaṃ bhrānto 'si -- iti | na tu punaḥ prativacanam ananurūpaṃ pṛṣṭād anyad eva dve niṣṭhā mayā purā proktā iti vaktuṃ yuktam | nāpi smārtenaiva karmaṇā buddheḥ samuccaye abhiprete vibhāga-vacanādi sarvam upapananam | kiṃ ca -- kṣatriyasya yuddhaṃ smārtaṃ karma sva-dharma iti jānataḥ tat kiṃ karmaṇi ghoro māṃ niyojayasi ity upālambho 'nupapannaḥ | tasmād gītā-śāstre īṣan-mātreṇāpi śrautena smārtena vā karmaṇā ātma-jñānasya samuccayo na kenacid darśayituṃ śakyaḥ | yasya tv ajñānāt rāgādi-doṣato vā karmaṇi pravṛttasya yajñena dānena tapasā vā viśuddha-sattvasya jñānam utpannaṃ paramārtha-tattva-viṣayam ekam evedaṃ sarvaṃ brahma akartṛ ca iti, tasya karmaṇi karma-prayojane ca nivṛtte 'pi loka-saṃgrahārthaṃ yatna-pūrvaṃ yathā pravṛttiḥ, tathaiva pravṛttasya yat pravṛtti-rūpaṃ dṛśyate na tat karma yena buddheḥ samuccayaḥ syāt | yathā bhagavato vāsudevasya kṣatra-dharma-ceṣṭitaṃ na jñānena samuccīyate puruṣārtha-siddhaye, tadvat tat-phalābhisaṃdhy-ahaṃkārābhāvasya tulyatvād viduṣaḥ | tattvavin nāhaṃ karomīti manyate, na ca tat-phalam abhisandhatte | yathā ca svargādi-kāmārthino 'gnihotrādi-karma-lakṣaṇa-dharmānuṣṭhānāya āhitāgneḥ kāmye eva agnihotrādau pravṛttasya sāmi kṛte vinaṣṭā 'pi kāme tad eva agnihotrādy-anutiṣṭhato 'pi na tat-kāmyam agnihotrādi bhavati | tathā ca darśayati bhagavān - kurvann api na lipyate na karoti na lipyate iti tatra tatra || yac ca pūrvaiḥ pūrvataraṃ kṛtam karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ iti, tat tu pravibhajya vijñeyam | tat katham ? yadi tāvat pūrve janakādayaḥ tattva-vido 'pi pravṛtta-karmāṇaḥ syuḥ, te loka-saṃgrahārtham guṇā guṇeṣu vartante iti jñānenaiva saṃsiddhim āsthitāḥ, karma-saṃnyāse prāpte 'pi karmaṇā sahaiva saṃsiddhim āsthitāḥ, na karma-saṃnyāsaṃ kṛtavanta ity arthaḥ | atha na te tattva-vidaḥ | īśvara-samarpitena karmaṇā sādhana-bhūtena saṃsiddhiṃ sattva-śuddhim, jñānotpatti-lakṣaṇāṃ vā saṃsiddhim, āsthitā janakādaya iti vyākhyeyam | etam evārthaṃ vakṣyati bhagavān sattva-śuddhaye karma kurvanti iti | sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ ity uktvā siddhiṃ prāptasya punar-jñāna-niṣṭhāṃ vakṣyati -- siddhiṃ prāpto yathā brahma ity ādinā || tasmād gītā-śāstre kevalād eva tattva-jñānān mokṣa-prāptiḥ na karma-samuccitāt iti niścito 'rthaḥ | yathā cāyam arthaḥ, tathā prakaraṇaśo vibhajya tatra tatra darśayiṣyāmaḥ || tatraiva dharma-saṃmūḍha-cetaso mithyā-jñānavato mahati śoka-sāgare nimagnasya arjunasya anyatrātma-jñānād uddharaṇam apaśyan bhagavān vāsudevaḥ tataḥ kṛpayā arjunam uddidhārayiṣuḥ ātma-jñānāyāvatārayann āha - śrī-bhagavān uvāca aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase | gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ