2.42 Flowery speech is uttered by the unwise, taking pleasure in the eulogising words of the Vedas, O Arjuna, saying, "There is nothing else."
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२-४२||
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||
BG 2.42
Audio
Translations & commentaries(4)
Sūtra — Translation
।।2.42।। हे पार्थ अविवेकी पुरुष वेदवाद में रमते हुये जो यह पुष्पिता (दिखावटी शोभा की) वाणी बोलते हैं? इससे (स्वर्ग से) बढ़कर और कुछ नहीं है।।।
येषां व्यवसायात्मिका बुद्धिर् नास्ति ते-- याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाण-रमणीयां वाचं वाक्य-लक्षणां प्रवदन्ति । के ? अविपश्चितो ऽमेधसो ऽविवेकिन इत्य् अर्थः । वेद-वाद-रताः बह्व्य्-अर्थ-वाद-फल-साधन-प्रकाशकेषु वेद-वाक्येषु रताः हे पार्थ, न अन्यत् स्वर्ग-प्राप्त्य्-आदि-फल-साधनेभ्यः कर्मभ्यो ऽस्ति इत्य् एवं वादिनः वदन-शीलाः
yeṣāṃ vyavasāyātmikā buddhir nāsti te-- yām imāṃ vakṣyamāṇāṃ puṣpitāṃ puṣpita iva vṛkṣaḥ śobhamānāṃ śrūyamāṇa-ramaṇīyāṃ vācaṃ vākya-lakṣaṇāṃ pravadanti | ke ? avipaścito 'medhaso 'vivekina ity arthaḥ | veda-vāda-ratāḥ bahvy-artha-vāda-phala-sādhana-prakāśakeṣu veda-vākyeṣu ratāḥ he pārtha, na anyat svarga-prāpty-ādi-phala-sādhanebhyaḥ karmabhyo 'sti ity evaṃ vādinaḥ vadana-śīlāḥ