2.24 This Self cannot be cut, burnt, wetted, nor dried up. It is eternal, all-pervading, stable, immovable and ancient.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२-२४||
acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||
BG 2.24
Audio
Translations & commentaries(4)
Sūtra — Translation
।।2.24।। क्योंकि यह आत्मा अच्छेद्य (काटी नहीं जा सकती), अदाह्य (जलाई नहीं जा सकती), अक्लेद्य (गीली नहीं हो सकती ) और अशोष्य (सुखाई नहीं जा सकती) है; यह नित्य, सर्वगत, स्थाणु (स्थिर), अचल और सनातन है।।
यत एवं तस्मात् -- यस्मात् अन्योन्य-नाश-हेतु-भूतानि एनम् आत्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्व-गतत्वात् स्थाणुर् इव, स्थिर इत्य् एतत् । स्थिरत्वात् अचलो ऽयम् आत्मा । अतः सनातनश् चिरन्तनः, न कारणात् कुतश्चिन् निष्पन्नः, अभिनव इत्य् अर्थः । नैतेषां लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव लोकान् आत्मनः नित्यत्वम् अविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्य् आदिना । तत्र यद् एव आत्म-विषयं किंचिद् उच्यते, तद् एतस्मात् लोकार्थान् नातिरिच्यते । किंचिच् छब्दतः पुनरुक्तम्, किंचिद् अर्थतः इति । दुर्बोधत्वात् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् असंसारित्व-बुद्धि-गोचरताम् आपन्नं सत् अव्यक्तं तत्त्वं संसार-निवृत्तये स्यात् इति
yata evaṃ tasmāt -- yasmāt anyonya-nāśa-hetu-bhūtāni enam ātmānaṃ nāśayituṃ notsahante asyādīni tasmāt nityaḥ | nityatvāt sarvagataḥ | sarva-gatatvāt sthāṇur iva, sthira ity etat | sthiratvāt acalo 'yam ātmā | ataḥ sanātanaś cirantanaḥ, na kāraṇāt kutaścin niṣpannaḥ, abhinava ity arthaḥ | naiteṣāṃ lokānāṃ paunaruktyaṃ codanīyam, yataḥ ekenaiva lokān ātmanaḥ nityatvam avikriyatvaṃ coktam na jāyate mriyate vā ity ādinā | tatra yad eva ātma-viṣayaṃ kiṃcid ucyate, tad etasmāt lokārthān nātiricyate | kiṃcic chabdataḥ punaruktam, kiṃcid arthataḥ iti | durbodhatvāt ātma-vastunaḥ punaḥ punaḥ prasaṅgam āpādya śabdāntareṇa tad eva vastu nirūpayati bhagavān vāsudevaḥ kathaṃ nu nāma saṃsāriṇām asaṃsāritva-buddhi-gocaratām āpannaṃ sat avyaktaṃ tattvaṃ saṃsāra-nivṛttaye syāt iti