2.19 He who takes the Self to be the slayer and he who thinks It is slain, neither of them ï1knowsï1. It slays not, nor is It slain.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९||
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||
BG 2.19
Audio
Translations & commentaries(4)
Sūtra — Translation
।।2.19।। जो इस आत्मा को मारने वाला समझता है और जो इसको मरा समझता है वे दोनों ही नहीं जानते हैं, क्योंकि यह आत्मा न मरता है और न मारा जाता है।।
शोक-मोहादि-संसार-कारण-निवृत्त्य्-अर्थं गीता-शास्त्रम्, न प्रवर्तकम् इत्य् एतस्यार्थस्य साक्षि-भूते ऋचौ आनिनाय भगवान् । यत् तु मन्यसे युद्धा भीष्मादयो मया हन्यन्ते अहम् एव तेषां हन्ता इति, एषा बुद्धिर् मृषैव ते । कथम् ? य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-क्रियायाः कर्तारं य च एनम् अन्यो मन्यते हतं देह-हननेन हतो ऽहम् इति हनन-क्रियायाः कर्म-भूतम् । तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । हन्ता अहं, हतो ऽस्म्य् अहम् इति देह-हननेन आत्मानम् अहं प्रत्यय-विषयं यौ विजानीतः तौ आत्म-स्वरूपानभिज्ञौ इत्य् अर्थः । यस्मात् न अयम् अत्मा हन्ति न हनन-क्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्य् अर्थः, अविक्रियत्वात्
śoka-mohādi-saṃsāra-kāraṇa-nivṛtty-arthaṃ gītā-śāstram, na pravartakam ity etasyārthasya sākṣi-bhūte ṛcau ānināya bhagavān | yat tu manyase yuddhā bhīṣmādayo mayā hanyante aham eva teṣāṃ hantā iti, eṣā buddhir mṛṣaiva te | katham ? ya enaṃ prakṛtaṃ dehinaṃ vetti vijānāti hantāraṃ hanana-kriyāyāḥ kartāraṃ ya ca enam anyo manyate hataṃ deha-hananena hato 'ham iti hanana-kriyāyāḥ karma-bhūtam | tau ubhau na vijānītaḥ na jñātavantau avivekena ātmānam | hantā ahaṃ, hato 'smy aham iti deha-hananena ātmānam ahaṃ pratyaya-viṣayaṃ yau vijānītaḥ tau ātma-svarūpānabhijñau ity arthaḥ | yasmāt na ayam atmā hanti na hanana-kriyāyāḥ kartā bhavati, na ca hanyate na ca karma bhavatīty arthaḥ, avikriyatvāt